मृत्युः सर्वहरश्चाहम्...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
- कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्स्त्रिंशत्तमः(३४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मृत्युः सर्वहरः च अहम् उद्भवः च भविष्यताम् कीर्तिः श्रीः वाक् च नारीणां स्मृतिः मेधा धृतिः क्षमा ॥ ३४ ॥
अन्वयः
[सम्पादयतु]अहं सर्वहरः मृत्युः च । भविष्यताम् उद्भवः च । नारीणां कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च ।
शब्दार्थः
[सम्पादयतु]- सर्वहरः = संहारकारिणां मध्ये
- अहं मृत्युः च = अहं मृत्युदेवता च
- भविष्यताम् = उत्पत्स्यमानानां शुभानाम्
- उद्भवः च = प्रकर्षः च
- नारीणाम् = स्त्रीणाम्
- कीर्तिः = यशः
- श्रीः = शोभा
- वाक् = वाणी
- स्मृतिः = स्मरणम्
- मेधा = उत्तमा बुद्धिः
- धृतिः = धैर्यम्
- क्षमा च = सहनं च ।
अर्थः
[सम्पादयतु]अहं प्राणहरः मृत्युः । अहम् उत्पत्स्यमानानां पदार्थानाम् अभ्युदयः । नारीणां यशः शोभा वाणी स्मृतिः मेधा धृतिः क्षमा इत्येते सद्गुणाः अहम् अस्मि ।