मोहराजपराजयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मोहराजपराजयम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः यशःपालः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

मोहराजपराजयं नाम पञ्चाङ्कं प्रतीकनाटकं यशःपालेन गुर्जरदेशे महाराजस्य अजयदेवस्य शासनकाले ११७४-११७७ ख्रीष्टाब्देषु विरचितम्। महावीरयात्रोत्सवे कुमारविहारेऽस्य प्रथमाभिनयो बभूव । यशःपालस्य पिता राजमन्त्री आसीत् । यशःपाल आत्मानमजयदेवस्य चरणकमलराजहंस इति वर्णयति । नाटकस्य कथासारः पद्येनैकेनागीयत -

पद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी

जैनं धर्ममवाप्य पापशमनं श्रीहेमचन्द्राद् गुरोः।

निर्वीराधनमुज्झता विदधता द्यूतादि-निर्वासनं

येनैकेन भटेन मोहनृपतिर्जिग्ये जगत्कण्टकः॥[१]

कथावस्तु[सम्पादयतु]

मोहराजपराजयानुसारेण विवेकचन्द्रो राजा जनमनोवृत्तौ राजधान्यां सदाचारदुर्गे वसन् मोहराजेनाक्रम्य दुर्गावरुद्धसञ्चारः कृतः । दुर्गाय पानीयं नयन्तीं धर्मचिन्तां नदी बन्धेन निरुध्य दुर्गवासिनः पिपासाकुलीकृता मोहराजेन। विवेकसैन्येन निर्मितः सदागमकूपोऽपि दुर्गस्थैर्विपक्षिभी रजोनिवहैः पूरित इति दुर्गवासिना कामनाम्ना चरेण मोहो विज्ञापितः । कथंकथमपि प्रार्थ्य विवेकचन्द्रो धर्मदारेण बहिर्गमनं प्रति मोहेनानुमतः शान्त्या भार्यया कृपासुन्दर्या च दुहित्रा दुर्गं जहाति स्म।

अथ कुमारपालो जैनमुनिप्रभावाद् भार्यां नीतिं, दुहितरं कीतिमञ्जरीं पुत्रं च प्रतापमत्यजत् । कीतिमञ्जरी च मोहं संमिलति स्म । मोहः कुमारपालपक्षमुपजापयन् प्रत्यजानात् कुमारपालो वा भवेदहं वा तिष्ठेयं नोभय इति । विवेकस्य दुहितरं भार्गीकृतया भवान् मोहं जयेदिति गुरुणोपदिष्टः कुमारपालो हेमचन्द्रस्य तपोवने तां कृपासुन्दरीं ददर्श । तयात्मानं विनोदयन्तं राजानं दृष्ट्वा महिषी राज्यश्रीर्मानं कृतवती । सा कृपासृन्दर्याः सौन्दर्यक्षयं देवीं जगदम्बां प्रार्थयामास । देवीप्रतिमायाः पराक् स्थितेनानुचरणेन कृपासुन्दर्या विवाहेनैव राज्ञोऽभ्युदयो विजयश्च संभाविनाविति सन्देशं श्रुत्वा देवीवचनं च मत्वा राज्यश्रीः स्वयमेव विवेकं दुहितुर्हस्तं कुमारपालाय याचितुं गता। विवेको दुहितुर्विवाहाय समयं पुरश्चकार - निःसन्तानेभ्यो धनादानं पापसप्तकप्रचारं च त्यक्त्वा कुमारपालः कृपासुन्दर्याः पात्रतामर्हतीति राज्ञा स्वीकृतेऽनुबन्धे नगरात् पशुहिंसा-द्यूत-मद्यपानादिकं विलुप्तमेव।

मोहस्य सैनिका रागो द्वेषोऽनङ्गः क्रोधो गर्वो, दम्भः पाषण्डः कलिर्मिथ्यात्वराशिः पञ्च विषयाः प्रमादः पापकेतुः शोकः शृभ्गारः इत्येते चान्ये च बहवः आसन् । कीर्तिमञ्जरी प्रतापश्च तेन संगतौ आस्तामेव । ससहायो मोहराजः कुमारपालमाचक्राम । कुमारपालो योगकवच-सन्नद्ध-कलेवरः पुण्यकेतुं विवेकचन्द्रं ज्ञानदर्पणं च सहायोज्य महायुद्धे मोहं पराजयतेति विवेकचन्द्रो जनमनोवृत्तिं स्वां राजधानीं पुनः प्रपन्नः।

मोहराजपराजयं नाटकं प्रतीकपात्रबहुलमपि नैव सर्वथा प्रतीकनाटकम्। कुमारपालो विदूषको व्यापारी कुबेरः तत्सहायाश्च सर्वे नरा एवेति मिश्रकोटिकमेवेदं रूपकम्। चारित्रनिर्माणमेवेदृशां रूपकाणां लक्ष्यं भवति। अत्र च यशःपालः साफल्यमलभत। काव्यस्य प्रभविष्णुतापि कविं यशस्विनं शंसति । यथा -

उद्यानं फलसंग्रहेण लवणेनान्नं वपुर्जीविते -

नास्यं नासिकयेन्दुना वियदलंकारेण काव्यं पुनः।

राष्ट्रं भूपतिना सरः कमलिनीषण्डेन होनं यथा।

शोच्यामेति दशां हहा गृहमपि त्यक्तं तथा स्वामिना।।

विण्टरनित्स-महोदयस्य अनुसारेण नेदं रूपकं केवलं काव्यत्वेन रोचतम् अपि तु गुर्जराणां तात्कालिकम् ऐतिहासिकं समाजिकीं चावस्थां प्रकाशयतीति महत्त्वपूर्णम् । धामिकः आग्रहः प्रतिबध्नात्येव काव्यचारुतामिति विषये नापवादो यशःपालः।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १४
"https://sa.wikipedia.org/w/index.php?title=मोहराजपराजयम्&oldid=437370" इत्यस्माद् पुनः प्राप्तिः