यं लब्ध्वा चापरं लाभं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वाविंशतितमः(२२) श्लोकः।

पदच्छेदः[सम्पादयतु]

यं लब्ध्वा च अपरं लाभं मन्यते न अधिकं ततः यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥

अन्वयः[सम्पादयतु]

यं च लब्ध्वा ततः अधिकम् अपरं लाभं न मन्यते, यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते (तं योगसंज्ञितं विद्यात् ।)

शब्दार्थः[सम्पादयतु]

यम् = यम् आनन्दम्
लब्ध्वा = प्राप्य
ततः = तस्मात्
अधिकम् = उत्कृष्टम्
अपरम् = अन्यम्
लाभं च = प्रयोजनम्
न मन्यते = न चिन्तयति
यस्मिन् = यस्मिन् तत्त्वे
स्थितः = तिष्ठन्
गुरुणा = महता
दुःखेन अपि = क्लेशेन अपि
न विचाल्यते = न अपसार्यते..... ।

अर्थः[सम्पादयतु]

यत् सुखं प्राप्य अन्यमानन्दं ततोऽप्यधिकं न मन्यते, यत्र च सुखे स्थितः महता दुःखेन न अपसारयितुं शक्यते । (तं योगसंज्ञितं विद्यात् ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]