सामग्री पर जाएँ

यं संन्यासमिति प्राहुः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः

[सम्पादयतु]
गीतोपदेशः
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसल्पो योगी भवति कश्चन ॥ २ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

यं सन्न्यासम् इति प्राहुः योगं तं विद्धि पाण्डव न हि असंन्यस्तसल्पः योगी भवति कश्चन ॥

अन्वयः

[सम्पादयतु]

पाण्डव ! यं सन्न्यासम् इति प्राहुः तं योगं विद्धि । असंन्यस्तसल्पः हि कश्चन योगी न भवति ।

शब्दार्थः

[सम्पादयतु]
पाण्डव = हे अर्जुन
यम् = यम्
संन्यासम् इति = कर्मसन्न्यास इति
प्राहुः = कथयन्ति
तम् = तम्
योगम् = कर्मयोगम्
विद्धि = जानीहि
हि = यस्मात्
असन्न्यस्तसङ्कल्पः = अभिलाषम् अपरित्यजन्
कश्चन = कोऽपि
योगी = कर्मयोगी
न भवति = न भवति ।

श्रुतिस्मृतिविदः यं सन्न्यास इति वदन्ति तमेव कर्मयोगं मन्यस्व । कुतः ? यस्मिन् कर्मसन्न्यासो वर्तते तस्मिन् कर्मफलविषयकः अभिलाषो न भवति, तथा यस्मिन् कर्मयोगो वर्तते तस्मिन्नपि स कर्मफलविषयकः अभिलाषो न वर्तते । एवं कर्मफलविषयकाभिलाषत्यागस्य उभयत्र सावात् तयोः सादृश्यमिति तौ उभौ एक एव न अनेकः ।

शाङ्करभाष्यम्

[सम्पादयतु]

ननु च निरग्नेरक्रियस्यैवश्रुतिस्मृतियोगशास्रेषु संन्यासित्वं योगित्वं च प्रसिद्धं कथमिह साग्नेः सक्रियस्य संन्यासित्वं योगित्वं चाप्रसिद्धमुच्यते इति।नैष दोषः। कयाचिद्गुणवृत्त्योभयस्य संपिपादयिशितत्वात्। तत्कथं कर्मफलसंकल्पसंन्यासात्संन्यासित्वं योगाङ्गत्वेन च कर्मानुष्ठामात्कर्मफलसंकल्पस्य वा चित्तविक्षेपहेतोः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]