यः शास्त्रविधिमुत्सृज्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः न सः सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥

अन्वयः[सम्पादयतु]

यः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते सः सिद्धिं न अवाप्नोति, न सुखम्, न परां गतिम् ।

शब्दार्थः[सम्पादयतु]

शास्त्रविधिम् = शास्त्रपद्धतिम्
उत्सृज्य = परित्यज्य
कामकारतः = स्वच्छन्दाचरणेन
सिद्धिम् = कार्यसिद्धिम्
न अवाप्नोति = न लभते ।

अर्थः[सम्पादयतु]

यः खलु पुरुषः शास्त्रसम्मतं मार्गं विहाय स्वेच्छया सन्ततम् अमार्गेणैव सञ्चरति तस्य कार्यसिद्धिः न भवति, न सुखम्, नापि मोक्षः । सः अत्रैव संसारे चिरं पीडाम् अनुभवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]