यच्चापि सर्वभूतानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवत्रिंशत्तमः(३९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यत् च अपि सर्वभूतानां बीजं तत् अहम् अर्जुन न तत् अस्ति विना यत् स्यात् मया भूतं चराचरम् ॥ ३९ ॥

अन्वयः[सम्पादयतु]

अर्जुन ! सर्वभूतानां यत् बीजं तत् अपि अहम् । मया विना चराचरं भूतं यत् स्यात् तत् नास्ति ।

शब्दार्थः[सम्पादयतु]

अर्जुन = हे अर्जुन !
सर्वभूतानाम् = सकलभूतानाम्
यत् बीजम् = यत् प्ररोहकारणम्
तत् अपि अहम् = तदपि अहमेव
मया विना = मां विना
यत् चराचरम् = स्थावरजमम्
यत् स्यात् = यत् भवेत्
तत् नास्ति = तद्वस्तु न विद्यते ।

अर्थः[सम्पादयतु]

अर्जुन ! सर्वभूतानां यत् प्ररोहकारणम् अस्ति तत् अपि अहम् । मया विरहितं यत्किञ्चिदपि स्थावरजमं नैव भवितुम् अर्हति । तादृशं किमपि न विद्यते एव ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यच्चापि_सर्वभूतानां...&oldid=418737" इत्यस्माद् प्रतिप्राप्तम्