यज्ञे तपसि दाने च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥

अन्वयः[सम्पादयतु]

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिधीयते ।

शब्दार्थः[सम्पादयतु]

स्थितिः = वृत्तिः
तदर्थीयम् = यज्ञदानतपःप्रयोजनार्थम्
अभिधीयते = प्रोच्यते ।

अर्थः[सम्पादयतु]

यज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते । तथा तेषां यज्ञादीनां यद् अनुकूलं कर्म वर्तते तदपि सत् इति शब्देनैव उच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यज्ञे_तपसि_दाने_च...&oldid=418741" इत्यस्माद् प्रतिप्राप्तम्