यतः प्रवृत्तिर्भूतानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च सिद्धिं विन्दति मानवः ॥ ४६ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यतः प्रवृत्तिः भूतानां येन सर्वम् इदं ततम् स्वकर्मणा तम् अभ्यर्च सिद्धिं विन्दति मानवः ॥

अन्वयः[सम्पादयतु]

मानवः यतः भूतानां प्रवृत्तिः, येन इदं सर्वं ततम् तं स्वकर्मणा अभ्यर्च सिद्धिं विन्दति ।

शब्दार्थः[सम्पादयतु]

भूतानाम् = प्राणिनाम्
प्रवृत्तिः = उत्पत्तिः
ततम् = परिव्याप्तम्
स्वकर्मणा = स्वकर्तव्येन
अभ्यर्च्य = आराध्य ।

अर्थः[सम्पादयतु]

सर्वेषां प्राणिनाम् उत्पत्तिः यस्मात् भवति, यः इदं समग्रं विश्वं व्याप्य तिष्ठति तादृशं परमात्मानम् एते सर्वेऽपि पुरुषाः आराध्य अभ्युदयं प्राप्नुवन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]