यतो यतो निश्चरति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥

अन्वयः[सम्पादयतु]

चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् ।

शब्दार्थः[सम्पादयतु]

चञ्चलम् = अतीव चलम्
अस्थिरम् = अदृढम्
मनः = चित्तम्
यतः यतः = यं यं विषयम्
निश्चरति= गच्छति
ततः ततः = तस्मात् तस्मात् विषयात्
एतत् = इदम् मनः
नियम्य = निरुध्य
आत्मनि एव = आत्मनि एव
वशं नयेत् = अधीनतां कुर्यात् ।

अर्थः[सम्पादयतु]

चञ्चलं मनः शब्दादिषु विषयेषु यत्र यत्र प्रवर्तते ततः ततः तत् प्रतिनिवर्तयेत् । आत्मनि एव तत् प्रवर्तयेत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यतो_यतो_निश्चरति...&oldid=482155" इत्यस्माद् प्रतिप्राप्तम्