यत्तु कृत्स्नवदेकस्मिन्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ॥

अन्वयः[सम्पादयतु]

यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम्अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् तामसम् उदाहृतम् ।

शब्दार्थः[सम्पादयतु]

एकस्मिन् कार्ये = देहादौ
कृत्स्नवत् = परिपूर्णवत्
सक्तम् = लग्नम्
अहैतुकम् = हेतुशून्यम्
अतत्त्वार्थवत् = परमार्थशून्यम्
अल्पम् = नीचम्
तामसम् = तमस्सम्बन्धि
उदाहृतम् = प्रोक्तम् ।

अर्थः[सम्पादयतु]

एकस्मिन् देहे प्रतिमादौ वा परिपूर्णवत् एतावानेव ईश्वरः इत्यभिप्रायेण सक्तम् , कारणविहीनम् परमार्थावलम्बनशून्यम्, तुच्छं च तत् ज्ञानं तामसमिति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]