यत्र योगेश्वरः कृष्णो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टसप्ततितमः(७८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥

अन्वयः[सम्पादयतु]

यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः (इति) मम मतिः ।

शब्दार्थः[सम्पादयतु]

योगेश्वरः = सर्वयोगेशः
धनुर्धरः = गाण्डीवधरः
पार्थः = अर्जुनः
श्रीः = लक्ष्मीः
विजयः = जयः
भूतिः = ऐश्वर्यम्
ध्रुवा = स्थिरः
नीतिः = धर्मः
मतिः = बुद्धिः ।

अर्थः[सम्पादयतु]

यत्र योगेश्वरः कृष्णः वर्तते यत्र च धनुर्धरः पार्थः वर्तते, तत्र सम्पत्तिः जयः ऐश्वर्यं धर्मः च अवश्यं भवति इति मम मतिः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]