यथा दीपो निवातस्थो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य नवदशः(१९) श्लोकः।

पदच्छेदः[सम्पादयतु]

यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता योगिनः यतचित्तस्य युञ्जतः योगम् आत्मनः ॥

अन्वयः[सम्पादयतु]

यथा निवातस्थः दीपः न इङ्गते सा आत्मनः योगं युञ्जतः यतचित्तस्य योगिनः उपमा स्मृता ।

शब्दार्थः[सम्पादयतु]

यथा = येन प्रकारेण
निवातस्थः = वायुरहितदेशस्थः
दीपः = दीपः
न इङ्गते = न चलति
सा = सा
आत्मनः = स्वस्य
योगम् = समाधिम्
युञ्जतः = अनुतिष्ठतः
यतचित्तस्य = वशीकृतमनसः
योगिनः = युक्तस्य
उपमा = दृष्टान्तः
स्मृता = चिन्तिता ।

अर्थः[सम्पादयतु]

वायुविरहिते स्थाने वर्तमानः दीपः न चलति । तथा नियतान्तःकरणस्य योगम् आचरतः ध्यानमग्नस्य योगिनः चित्तमपि निष्कम्पं तिति । अतः सः दीपः तादृशचित्तस्य उपमा भवितुमर्हति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यथा_दीपो_निवातस्थो...&oldid=482157" इत्यस्माद् प्रतिप्राप्तम्