यदक्षरं वेदविदो वदन्ति...
दिखावट
श्लोकः
[सम्पादयतु]- यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
- यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यत् अक्षरं वेदविदः वदन्ति विशन्ति यत् यतयः वीतरागाः यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
अन्वयः
[सम्पादयतु]वेदविदः यत् अक्षरं वदन्ति, वीतरागाः यतयः यत् विशन्ति, यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण प्रवक्ष्ये ।
शब्दार्थः
[सम्पादयतु]- वेदविदः = वेदज्ञाः
- यत् = यद्वस्तु
- अक्षरम् = अविनाशि
- वदन्ति = कथयन्ति
- वीतरागाः =नष्टाभिलाषाः
- यतयः = संन्यासिनः
- यत् विशन्ति = यत् प्रविशन्ति
- यत् = यद्वस्तु
- इच्छन्तः = अभिलषन्तः
- ब्रह्मचर्यम् = ब्रह्मचर्यव्रतम्
- चरन्ति = आचरन्ति
- तत् पदम् = तत् स्थानम्
- ते = तुभ्यम्
- सङ्ग्रहेण = सङ्क्षेपेण
- प्रवक्ष्ये = वदिष्यामि ।
अर्थः
[सम्पादयतु]वेदज्ञाः यत् वस्तु अविनाशि इति वदन्ति, वीतरागाः सन्न्यासिनः यत् प्रविशन्ति, पुरुषाश्च यत् वस्तु अभिलषन्तः ब्रह्मचर्यव्रतम् आचरन्ति तत् प्रसिद्धं स्थानं तुभ्यं संक्षेपेण वदिष्यामि ।