यदग्रे चानुबन्धे च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवत्रिंसत्तमः(३९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यत् अग्रे च अनुबन्धे च सुखं मोहनम् आत्मनः निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

अन्वयः[सम्पादयतु]

यत् सुखम् अग्रे च अनुबन्धे च आत्मनः मोहनं निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ।

शब्दार्थः[सम्पादयतु]

अग्रे = आदौ
अनुबन्धे = उत्तरकाले
आत्मनः = स्वस्य
मोहनम् = अज्ञानकरम्
निद्रालस्य-प्रमादोत्थम् = स्वापमान्द्यानवधानसम्भूतम्
उदाहृतम् = वर्णितम् ।

अर्थः[सम्पादयतु]

निद्रा आलस्यम् अनवधानं चेति एतैः कारणैः जातं यत् सुखं तत् आदौ अन्ते च आत्मनः मोहकरं भवति । तत् तामसम् इत्युक्तम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदग्रे_चानुबन्धे_च...&oldid=418760" इत्यस्माद् प्रतिप्राप्तम्