यदा विनियतं चित्तम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टदशः(१८) श्लोकः।

पदच्छेदः[सम्पादयतु]

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते निःस्पृहः सर्वकामेभ्यः युक्तः इति उच्यते तदा ॥

अन्वयः[सम्पादयतु]

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते सर्वकामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते ।

शब्दार्थः[सम्पादयतु]

यदा = यस्मिन् समये
विनियतम् = विशेषेण निरुद्धम्
चित्तम् = मनः
आत्मनि एव = आत्मन्येव
अवतिष्ठते = विद्यते
सर्वकामेभ्यः = सकलवाञ्छितेभ्यः
निःस्पृहः = निरीहः
तदा = तस्मिन् समये
युक्तः इति = योगी इति
उच्यते = कथ्यते ।

अर्थः[सम्पादयतु]

एकाग्रताम् आपन्नं चित्तं यदा विषयानुसन्धानं परित्यज्य आत्मनि एव तिष्ठति तदा सः जनः सर्वकामेषु निःस्पृहत्वात् युक्त इति उच्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदा_विनियतं_चित्तम्...&oldid=482158" इत्यस्माद् प्रतिप्राप्तम्