यदा हि नेन्द्रियार्थेषु...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्तः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते सर्वसङ्कल्पसन्न्यासी योगारूढः तदा उच्यते ॥

अन्वयः[सम्पादयतु]

यदा हि इन्द्रियार्थेषु न अनुषज्जते, कर्मसु (अपि) न तदा सर्वसङ्कल्पसन्न्यासी योगारूढः उच्यते ।

शब्दार्थः[सम्पादयतु]

यदा हि = यस्मिन् समये
इन्द्रियार्थेषु = शब्दादिषु विषयेषु
न अनुषज्जते = न सक्तो भवति
कर्मसु = कर्माचरणेषु अपि
न (अनुषज्जते) = न सक्तो भवति
तदा = तस्मिन् समये
सर्वसङ्कल्पसन्न्यासी = सर्वेषाम् इन्द्रियविषयाणां तत्साधनानां च श्रवणादिक्रियाणां परित्यक्ता
योगारूढः = ज्ञानयोगम् आरूढः
उच्यते = वर्ण्यते ।

अर्थः[सम्पादयतु]

यदा पुरुषः इन्द्रियार्थेषु रूपरसगन्धादिषु तत्साधनेषु दर्शनास्वादनघ्राणादिषु कर्मसु च आसक्तो न भवति तदा तस्य तेषु विषयेषु तत्साधनेषु च कर्मसु इच्छैव न भवति । तदानीं सः ज्ञानयोगम् आरूढः अर्थात् ज्ञानवान् इति उच्यते ।

शाङ्करभाष्यम्[सम्पादयतु]

अथेदानीं कदा योगारूढो भवतीत्युच्यते-यदेति। यदा समाधीयमानचित्तो योगी हीन्द्रियार्थेष्विन्द्रियाणामर्थः शब्दादयस्तेष्विन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिशिद्धेषुप्रयोजनाभावबुद्धया नानुषज्जतेऽनुषङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः। सर्वसंकल्पसंन्यासी सर्वान्संकल्पानिहामुत्रार्थकामहेतून्संन्यसितु शीलमस्येति स सर्वसंकल्पसंन्यासीयोगारूढः प्राप्तयोग इत्येतत्तदा तस्मिन्कालउच्यते। सर्वसंकल्पसंन्यासीति वचनात्सर्वांश्च कामान्सर्वाणि च कर्माणि संन्यसेदित्यर्थः। संकल्पमूला हि सर्वे कामाः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]