यद्यद्विभूतिमत्सत्त्वं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यत् यत् विभूतिमत् सत्त्वं श्रीमदूर्जितम् एव वा तत् तत् एव अवगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ४१ ॥

अन्वयः[सम्पादयतु]

यद्यत् विभूतिमत् श्रीमत् ऊर्जितम् एव वा सत्त्वं तत्तत् एव मम तेजोंऽशसम्भवं त्वम् अवगच्छ ।

शब्दार्थः[सम्पादयतु]

यद्यत् सत्त्वम् = यद्यत् वस्तु
विभूतिमत् = प्रभावयुक्तम्
श्रीमत् = शोभावहम्
ऊर्जितम् एव वा = उत्साहसहितं वा
तत्तत् एव = तत् सकलं वस्तु
मम तेजोंऽशसम्भवम् = मम ऐश्वर्यात् उत्पन्नम्
अवगच्छ = विजानीहि ।

अर्थः[सम्पादयतु]

प्रभावयुक्तं शोभावहं बलसहितं वा यद्यत् वस्तु तत् सकलं मम ऐश्वर्यात् उत्पन्नम् इति त्वं जानीहि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]