यद्यहङ्कारमाश्रित्य...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
- मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवपञ्चाशत्तमः(५९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यदि अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे मिथ्या एष व्यवसायः ते प्रकृतिः त्वां नियोक्ष्यति ॥
अन्वयः
[सम्पादयतु]यदि अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे (तर्हि) एषः ते व्यवसायः मिथ्या । प्रकृतिः त्वां नियोक्ष्यति।
शब्दार्थः
[सम्पादयतु]- अहङ्कारम् = अहम्भावम्
- आश्रित्य = स्वीकृत्य
- योत्स्ये = युद्धं करिष्ये
- मन्यसे = चिन्तयसि
- व्यवसायः = निश्चयः
- मिथ्या = विपरीतः
- प्रकृतिः = क्षत्रियहेतुभूता प्रकृतिः
- नियोक्ष्यति = अवश्यं प्रवर्तयति ।
अर्थः
[सम्पादयतु]यदि त्वम् अहङ्कारम् आश्रित्य अहं युद्धं न करोमि इति निर्णयसि तदापि तव निर्णयः निष्फलः भवति । यतः क्षत्रियत्वकारणीभूता या प्रकृतिः सा प्रवृद्धरजोगुणा सती त्वाम् अवश्यं युद्धे प्रवर्तयिष्यति । अतः पूर्वमेव मदुक्तस्य अनुसरणं तव अत्यन्तं श्रेयस्करम् ।