यया तु धर्मकामार्थान्...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।
- प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुस्त्रिंशत्त्मः(३४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥
अन्वयः
[सम्पादयतु]अर्जुन ! प्रसङ्गेन फलाकाङ्क्षी यया धृत्या धर्मकामार्थान् धारयते सा धृतिः राजसी ।
शब्दार्थः
[सम्पादयतु]- धृत्या = प्रयत्नेन
- धर्मकामार्थान् = पुरुषार्थान्
- प्रसङ्गेन = कर्तृत्वाभिमानेन
- फलाकाङ्क्षी = फलाभिलाषी ।
- धारयते = अवधारयते
- धृति: = उद्यम:
- पार्थ = हे पार्थ !
- राजसी = राजसी
अर्थः
[सम्पादयतु]अर्जुन ! कर्तृत्वाभिमानेन फलापेक्षः सन् यया धृत्या धर्मार्थकामान् पुरुषार्थान् धारयति सा धृतिः राजसी इत्युच्यते ।