यया स्वप्नं भयं शोकं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ३५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

अन्वयः[सम्पादयतु]

पार्थ ! दुर्मेधाः यया स्वप्नं भयं शोकं विषादं मदम् एव च न विमुञ्चति सा धृतिः तामसी ।

शब्दार्थः[सम्पादयतु]

दुर्मेधाः = कुत्सितबुद्धिः
स्वप्नम् = निद्राम्
शोकम् = दुःखम्
विषादम् = ग्लानिम्
मदम् = गर्वम् ।

अर्थः[सम्पादयतु]

अर्जुन ! कुत्सितबुद्धिः यया धृत्या निद्रां त्रासं दुःखं ग्लानिं गर्वमपि न त्यजति सा धृतिः तामसी ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यया_स्वप्नं_भयं_शोकं...&oldid=418772" इत्यस्माद् प्रतिप्राप्तम्