यस्मात्क्षरमतीतोऽहम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यस्मात् क्षरम् अतीतः अहम् क्षरात् अपि च उत्तमः अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

अन्वयः[सम्पादयतु]

यस्मात् अहं क्षरम् अतीतः अक्षरात् अपि च उत्तमः अतः लोके वेदे च पुरुषोत्तमः प्रथितः अस्मि ।

शब्दार्थः[सम्पादयतु]

क्षरम् = क्षरपुरुषम्
अतीतः = अतिक्रान्तः
अक्षरात् = अक्षरपुरुषात्
उत्तमः = अतिशयितः
प्रथितः = प्रसिद्धः ।

अर्थः[सम्पादयतु]

अहं नित्यमुक्तत्वात् क्षरं पुरुषम् अतिक्रान्तः इति पुरुषोऽस्मि । नियामकत्वात् अक्षरपुरुषात् उत्तमः इति उत्तमोऽप्यस्मि । तदेवं पुरुषश्च उत्तमश्च इति हेतोः अहं लोके वेदे च पुरुषोत्तमः इति प्रसिद्धिं गतोऽस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]