यस्य नाहङ्कृतो भावो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमान् लोकान्न हन्ति न निबध्यते ॥ १७ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते हत्वापि स इमान् लोकान् न हन्ति न निबध्यते ॥

अन्वयः[सम्पादयतु]

यस्य अहङ्कृतः भावः न, यस्य बुद्धिः न लिप्यते सः इमान् लोकान् हत्वा अपि न हन्ति, न निबध्यते।

शब्दार्थः[सम्पादयतु]

अहङ्कृतः = अहं कर्ता इति
भावः = अभिप्रायः
बुद्धिः = अन्तःकरणम्
लिप्यते = कलुषी - भवति
लोकान् = प्राणिनः
हत्वा = विनाश्य
हन्ति = नाशयति
निबध्यते = बद्धो भवति ।

अर्थः[सम्पादयतु]

यस्य सर्वेषां कर्मणां कर्ता अहं न इति अभिप्रायो वर्तते, यस्य च अन्तःकरणम् इदम् इष्टम् इदं च अनिष्टमिति विचार्य कर्मसु न प्रवर्तते सः चेतनान् मारयन्नपि न मारणप्रयुक्तं पापं प्राप्नोति । तस्मात् सः कदापि न संसारे बद्धो भवति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यस्य_नाहङ्कृतो_भावो...&oldid=418775" इत्यस्माद् प्रतिप्राप्तम्