सामग्री पर जाएँ

यातयामं गतरसं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

यातयामं गतरसं पूतिः पर्युषितं च यत् उच्छिष्टम् अपि च अमेध्यं भोजनं तामसप्रियम् ॥ १० ॥

अन्वयः

[सम्पादयतु]

यातयामं गतरसं पूति पर्युषितं च उच्छिष्टम् अपि च अमेध्यं च यत् भोजनं तत् तामसप्रियम् ।

शब्दार्थः

[सम्पादयतु]
यातयामम् = यामात्मकः कालः यस्य व्यतीतः तादृशम्
गतरसम् = गतसारम्
पूति = दुर्गन्धम्
पर्युषितं च = रात्र्यन्तरितम्
उच्छिष्टम् = भुक्तावशिष्टम्
अमेध्यं च = अशुचि च
तामसप्रियम् = तामसाभिमतम् ।

ये पुनः आहाराः यामात्मकः कालः यस्य व्यतीतः तादृशाः, अतिपक्वाः, दुर्गन्धविशिष्टाः, दिनान्तरे पक्वाः, भुक्तावशिष्टाः अभक्षणीयाश्च सन्ति ते तामसानां प्रियाः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=यातयामं_गतरसं...&oldid=418776" इत्यस्माद् प्रतिप्राप्तम्