यान्ति देवव्रता देवान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यान्ति देवव्रताः देवान् पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोः अपि माम् ॥ २५ ॥

अन्वयः[सम्पादयतु]

देवव्रताः देवान् यान्ति । पितृव्रताः पितॄन् यान्ति । भूतेज्याः भूतानि यान्ति । मद्याजिनः अपि मां यान्ति । ।

शब्दार्थः[सम्पादयतु]

देवव्रताः = देवपरायणाः
देवान् = तत्तद्देवविशेषान्
यान्ति = प्राप्नुवन्ति
पितृव्रताः =पितृपरायणाः
पितॄन् = पितृदेवान्
यान्ति = प्राप्नुवन्ति
भूतेज्याः = भूतपूजकाः
भूतानि = विविधभूतगणान्
यान्ति = प्राप्नुवन्ति
मद्याजिनः अपि = मदाराधकाः च
मां यान्ति = मां प्राप्नुवन्ति ।

अर्थः[सम्पादयतु]

ये देवान् पूजयन्ति ते देवलोकं गच्छन्ति । ये पितॄन् ते पितृलोकम् । ये पुनः भूतानि ते भूतलोकम् । किन्तु एषां सर्वेषामपि प्रत्यागमनम् अस्ति । मां तु ये पूजयन्ति ते मामेव यान्ति, न प्रत्यागच्छन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]