येरकौड

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


यर्काड्- दक्षिणाभरणम् सेलं नगरसमीपे स्थितं यर्काड् गिरिधाम षेवरायन् पर्वतप्रदेशे अस्ति । ४८०० पादपरिमिन्नोन्नते पर्वतप्रदेशे एतत् विहारधाम अस्ति । सेलमतः ३० कि.मी यावत् भूमार्गेण गन्तव्यम् । मार्गम् उभयतः वनं, सुन्दरवृक्षाः, काफीवाटिकाः, द्रष्टुं शक्याः । अतः एव एतं प्रदेशम् काफीकण्ट्री इति वदन्ति । अत्र प्रमुखाकर्षणं नाम सुन्दरसरोवरम् । नौकाविहारस्य व्यवस्था अस्ति । स्वयं नौकां चालयित्वा विहारः कर्तुं शक्यः अस्ति । इतः षट्स्थलदर्शनं वाहनेन कर्तुं शक्यम् । एतानि दर्शनीयस्थलानि लेडी सीट् जेण्ट्स् सीट्, षवरले हिल्स् ,बेट्स् हिल्स्, किलियनूरजलपातः, राष्ट्रिय-आर्किड् उद्यानं च । उद्याने २५,००० आर्किड् सस्यानि सन्ति । पादचारणेन अत्र अतीव सन्तोषम् अनुभवामः । अतिप्राचीनसस्यानां तथा वृक्षाणां प्रचीनावशेषान् (३४५ मिलियन् वर्षेभ्यः पूर्वतनान्) अत्र पश्यामः । पुरातनमानवाः यत्र वसन्ति स्म तादृशीः गुहाः अत्र पश्यामः । सुन्दरं प्रयोगोद्यानम् अत्रास्ति । वेदकालीन- पूजामन्दिराणि अपि सन्ति । इङ्ग्लेण्ड्देशस्य प्राचीनं नगरम् ‘डाटेमूर्’ इव अस्ति एतत् इति जनाः कथयन्ति।

मार्गः[सम्पादयतु]

कोडैधूमशकटनिस्थानतः ८० कि.मी.

भूमार्गः[सम्पादयतु]

पळनीतः ६४ कि.मी, मधुरैतः १२० कि.मी. । त्रिचितः १६९ कि.मी । सेलमतः ३२ कि.मी । चेन्नैतः ३६३ कि.मी बेङ्गळूरुतः १८० कि.मी. एप्रिल्- मेमासयोः तथा जूनमासे अत्रागमनेन अतीव सन्तोषः भवति ।

"https://sa.wikipedia.org/w/index.php?title=येरकौड&oldid=368251" इत्यस्माद् प्रतिप्राप्तम्