येऽप्यन्यदेवता भक्ता...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये अपि अन्यदेवताः भक्ताः यजन्ते श्रद्धया अन्विताः ते अपि माम् एव कौन्तेय यजन्ति अविधिपूर्वकम् ॥ २३ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! ये भक्ताः अपि श्रद्धया अन्विताः अन्यदेवताः यजन्ते ते अपि अविधिपूर्वकं माम् एव यजन्ति ।

शब्दार्थः[सम्पादयतु]

कौन्तेय = हे अर्जुन !
ये भक्ताः अपि = ये भक्ताः
श्रद्धया = आसक्त्या
अन्विताः = संयुक्ताः
अन्यदेवताः = इतरदेवताः
यजन्ते = उपासते
ते अपि = ते मानवाः
अविधिपूर्वकम् = अज्ञानपूर्वकम्
मामेव यजन्ति = मामेव अर्चन्ति ।

अर्थः[सम्पादयतु]

येऽपि इन्द्रादीन् अन्यान् देवान् श्रद्धायुक्ताः पूजयन्ति ते अजानन्तः मामेव पूजयन्ति इति तेषामपि अभ्युदयः अवश्यं भवति, किन्तु न शाश्वतः इति विशेषः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

[[वर्गः:राजविद्याराजगुह्ययोगः] | 23]

सम्बद्धाः लेखाः[सम्पादयतु]