ये चैव सात्त्विका भावा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये चैव सात्त्विकाः भावाः राजसाः तामसा च ये मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि ॥ १२ ॥

अन्वयः[सम्पादयतु]

ये च एव सात्त्विकाः भावाः ये राजसाः तामसाः च तान् मत्तः एव इति विद्धि । अहं तु तेषु न ते (पुनः) मयि ।

शब्दार्थः[सम्पादयतु]

ये च एव = ये पुनः
सात्त्विकाः = सत्त्वात् आगताः
भावाः = पदार्थाः
ये राजसाः = ये रजसः आगताः
तामसाः च = तमसः आगताः च
तान् = पदार्थान्
मत्तः एव इति = मत्तः सम्भूताः इति
विद्धि = जानीहि
तेषु तु = किन्तु तेषु पदार्थेषु
न = न भवामि
ते (पुनः) = भावाः पदार्थाः तु
मयि = मयि । (वर्तन्ते)

अर्थः[सम्पादयतु]

ये सत्त्वात् समुत्पन्नाः शमदमादयः, ये रजसः समुत्पन्नाः दर्पद्वेषादयः, ये च तमसः समुत्पन्नाः शोकमोहादयः भावाः सन्ति ते सर्वेऽपि मत्तः एव जाताः । तथापि नाहं तेषु अधीनः अस्मि । किन्तु ते एव मयि अधीनाः सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]