ये शास्त्रविधिमुत्सृज्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये शास्त्रविधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः तेषां निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १ ॥

अन्वयः[सम्पादयतु]

कृष्ण ! ये शास्त्रविधिमुत्सृज्य श्रद्धया अन्विताः यजन्ते तेषां निष्ठा तु का ? सत्त्वम् आहो रजः तमः ।

शब्दार्थः[सम्पादयतु]

शास्त्रविधिम् = शास्त्रीयं कर्म
उत्सृज्य = वर्जयित्वा
श्रद्धया = आसक्त्या
अन्विताः = सहिताः
निष्ठा = स्थितिः
आहो = अथवा ।

अर्थः[सम्पादयतु]

ये शास्त्रविधिम् उल्लङ्घ्य श्रद्धया कर्म कुर्वन्ति ते आसुराः । ये शास्त्रविधिम् अनुसृत्य श्रद्धया कर्म कुर्वन्ति ते दैवाः । ये पुनः शास्त्रविधिं त्यजन्ति वृद्धव्यवहारेण सम्प्रदायः इति श्रद्धया कर्म अनुतिष्ठन्ति न ते दैवाः, शास्त्रविधेः त्यागात् । नापि आसुराः श्रद्धया कर्मानुष्ठानात् । ततश्च तादृशानां का स्थितिः ? किं तेषु सत्त्वं गुणो निर्णेयः किं वा तमः आहोस्वित् रजः ?

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]