योगिनामपि सर्वेषां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।

पदच्छेदः[सम्पादयतु]

योगिनाम् अपि सर्वेषां मद्गतेन अन्तरात्मना श्रद्धावान् भजते यः मां सः मे युक्ततमः मतः ॥

अन्वयः[सम्पादयतु]

सर्वेषां योगिनाम् अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते सः मे युक्ततमः मतः ।

शब्दार्थः[सम्पादयतु]

सर्वेषाम् = सकलानाम्

योगिनाम् अपि = युक्तानाम् अपि
यः = यः पुरुषः
श्रद्धावान् = श्रद्धालुः सन्
मद्गतेन = मयि स्थितेन
अन्तरात्मना = चित्तेन
माम् = माम्
भजते = सेवते
सः = सः पुरुषः
मे = मम
युक्ततमः = आप्ततमः
मतः = अभिमतः ।

अर्थः[सम्पादयतु]

योगिषु अपि यः वासुदेवे मयि श्रद्दधानः सन् मामेव समाहितान्तःकरणः सन् भजते सः मम अतिशयेन आप्तः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योगिनामपि_सर्वेषां...&oldid=482163" इत्यस्माद् प्रतिप्राप्तम्