योगी युञ्जीत सततम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः ॥

अन्वयः[सम्पादयतु]

यतचित्तात्मा निराशीः अपरिग्रहः एकाकी योगी रहसि स्थितः सततम् आत्मानं युञ्जीत ।

शब्दार्थः[सम्पादयतु]

यतचित्तात्मा = नियतमनोदेहः
निराशीः = अपगततृष्णः
अपरिग्रहः = परिग्रहरहितः
एकाकी = सहायरहितः
योगी = योगी
रहसि = विजने
स्थितः = वर्तमानः
सततम् = सदा
आत्मानम् = मनः
युञ्जीत = योजयेत् (समाधिमग्नं कुर्यात्) ।

अर्थः[सम्पादयतु]

योगी जनान्तरेण रहितः, वशीकृतचित्तः, तृष्णाविहीनः परिग्रहशून्यश्च सन् निर्जनप्रदेशे स्थित्वा मनः सततम् आत्मविषयकं कुर्यात् ।

शाङ्करभाष्यम्[सम्पादयतु]

अत एवमुत्तमफलप्राप्तये योगी ध्यायी युञ्जीत समादध्यात्सततं सर्वदात्मानमन्तः करणं रहस्येकान्ते गिरिगुहादौ स्थितः सन्नेकाक्यसहायः। रहसि स्थित एकाकी चेति विशेषणात्संन्यासं।कृत्वेत्यर्थः। यतचित्तात्मा चित्तमन्तःकरणमात्मा देहश्च संयतौ यस्य स यतचित्तात्मा निराशीर्वीततृष्णोऽपरिग्रहश्च। परिग्रहरहित इत्यर्थः। संन्यासित्वेऽपित्यक्तसर्वपरिग्रहः सन्युञ्जीतेत्यर्थः ।।10।।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=योगी_युञ्जीत_सततम्...&oldid=482164" इत्यस्माद् प्रतिप्राप्तम्