योऽयं योगस्त्वया प्रोक्तः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

य अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

अन्वयः[सम्पादयतु]

मधुसूदन ! यः अयं योगः त्वया साम्येन प्रोक्तः मनसः चञ्चलत्वात् एतस्य स्थिरां स्थितिं अहं न पश्यामि ।

शब्दार्थः[सम्पादयतु]

मधुसूदन = हे कृष्ण !
यः
अयं योगः = असौ योगः
त्वया = भवता
साम्येन = समत्वेन (उपलक्षितः)
प्रोक्तः = उपदिष्टः
चञ्चलत्वात् = (मनसः) अस्थिरत्वात्
एतस्य = अस्य
स्थिराम् =अचलम्
स्थितिम् = अवस्थानम्
अहम् = अहम् (अर्जुनः)
न पश्यामि = न जानामि ।

अर्थः[सम्पादयतु]

हे कृष्ण ! भवता अधुना साम्येन उपेतः यः योगः प्रोक्तः तस्य स्थिरा स्थितिः भवेत् इति मम निर्णयो नास्ति । यतः मनः अत्यन्तं चञ्चलम् । अतः तादृशस्य योगस्य अपि स्थितिः अस्थिरा एव भवेत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]