सामग्री पर जाएँ

यो मामजमनादिं च...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

यः माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् असम्मूढः सः मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

अन्वयः

[सम्पादयतु]

यः असम्मूढः माम् अजम् अनादिं लोकमहेश्वरं च वेत्ति सः मर्त्येषु सर्वपापैः प्रमुच्यते ।

शब्दार्थः

[सम्पादयतु]
यः = यः मानवः
असम्मूढः = मोहरहितः
माम् = माम्
अजम् = जन्मरहितम्
अनादिम् = आदिरहितम्
लोकमहेश्वरं च = लोकाधिपतिं च
वेत्ति = वेद
सः मर्त्येषु = सः मानवेषु
सर्वपापैः = सकलपापैः
प्रमुच्यते = विमुक्तो भवति ।

यः मोहरहितः माम् अजम् आदिरहितं लोकाधिपतिम् अपि जानाति मानवेषु सः सकलपापैः विमुक्तः भवति ।

रामानुजभाष्यम्

[सम्पादयतु]

अग्रिमे श्लोके विद्यते ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=यो_मामजमनादिं_च...&oldid=418793" इत्यस्माद् प्रतिप्राप्तम्