यो यो यां यां तनुं भक्तः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकविंशतितमः(२१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यः यः यां यां तनुं भक्तः श्रद्धया अर्चितुम् इच्छति तस्य तस्य अचलां श्रद्धां ताम् एव विदधामि अहम् ॥ २१ ॥

अन्वयः[सम्पादयतु]

यः यः भक्तः यां यां तनुं श्रद्धया अर्चितुम् इच्छति तस्य तस्य ताम् एव अचलां श्रद्धाम् अहं विदधामि ।

शब्दार्थः[सम्पादयतु]

यः यः भक्तः = यः यः भजनशीलः
यां यां तनुम् = यां यां मूर्तिम्
श्रद्धया = आसक्त्या
अर्चितुम् = आराधयितुम्
इच्छति = अभिलषति
तस्य तस्य = भक्तस्य
ताम् एव = तादृशीम् एव
अचलाम् = स्थिराम्
श्रद्धाम् = आसक्तिम्
विदधामि = करोमि ।

अर्थः[सम्पादयतु]

यः यः भक्तः यां यां मूर्तिं श्रद्धया अर्चितुम् इच्छति तस्य भक्तस्य तादृशीम् एव स्थिरां श्रद्धाम् अहं करोमि ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]