य एवं वेत्ति पुरुषं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यः एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ २३ ॥

अन्वयः[सम्पादयतु]

यः एवं गुणैः सह पुरुषं प्रकृतिं च वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।

शब्दार्थः[सम्पादयतु]

गुणैः सह = गुणैः साकम्
पुरुषम् = जीवम्
प्रकृतिं च = प्रधानम् अपि
वेत्ति = जानाति
सर्वथा = सर्वप्रकारेण
वर्तमानः अपि = विद्यमानः अपि
भूयः = पुनः
न अभिजायते = न उत्पद्यते ।

अर्थः[सम्पादयतु]

यः पुरुषः पूर्वोक्तप्रकारेण क्रमेण गुणान्, जीवम्, प्रकृतिं च जानाति सः देहे सम्प्रति विद्यमानोऽपि पुनः जन्म न प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=य_एवं_वेत्ति_पुरुषं...&oldid=418732" इत्यस्माद् प्रतिप्राप्तम्