रक्तदुर्गम् (आग्रा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रक्तदुर्गम्
विश्वपरम्परास्थानानि

Amar Singh Gate, one of two entrances into Agra Fort
राष्ट्रम् India
प्रकारः Cultural
मानदण्डः iii
अनुबन्धाः 251
क्षेत्रम् South Asia
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 1983  (7th सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

रक्तदुर्गं देहलीसमीपे आग्रानगरे अस्ति । देहल्याम् अपि रक्तदुर्गमामकं प्रसिद्धं स्थानम् अस्ति । ‘प्रसिद्धताजमहल’भवनतः सार्धद्विकि.मी दूरे अस्ति । रक्तदुर्गम् (लालकिला) वास्तविकतया दुर्गेण आवृत्तं प्रासादानां नगरम् इति कथयितुं शक्यते ।

इतिहासः[सम्पादयतु]

षोडशशतकस्य अन्ते अकबरस्य काले मोघलवंशस्याः एतत् दुर्गं लोदीवंशात् अलभन् । अकबरः स्वराज्यस्य परिपालनसमये राजधानीं देहलीतः आग्राम् प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकं सम्पन्नं सञ्जातम् । अकबरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्मायति स्म । रक्तदुर्गे अपि अस्य प्रभावः दृष्टुं शक्यः । रक्तदुर्गं न केवलं दुर्गं जातम् । अपि तु राज्ञां तथा तेषां राज्ञीनां निवासत्वेनापि अस्य उपयोगः आरब्धः । रक्तदुर्गस्य इदानीन्तनरुपम् अकबरस्य पौत्रस्य षाहजहानस्य काले प्राप्तम् । षाहजहानस्य काले शिल्पकलायां श्वेतामृतशिलायाः अधिकः उपयोगः आसीत् । (उदाहरणार्थं- ताजमहल्) । षाहजहानः अत्रत्यानां केषाञ्चन सौधानां निर्माणम् आरब्धवान् । अनन्तरतनवर्षेषु षाहजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्तदुर्गे बद्धवान् । षाहजहानः अस्य एव रक्तदुर्गस्य ‘मुसम्मुन् बुर्ज’ नामके गोपुरे मृतः इति भावयन्ति । एतत् गोपुरम् अमृतशिलया निर्मितम् अस्ति । इतः ‘ताजमहल्’ भवनस्य अद्भुतम् दृश्यं द्रष्टुं शक्यम् ।

दुर्गस्य अलङ्कृतभागः
"https://sa.wikipedia.org/w/index.php?title=रक्तदुर्गम्_(आग्रा)&oldid=442527" इत्यस्माद् प्रतिप्राप्तम्