रजस्तमश्चाभिभूय...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
- रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
[सम्पादयतु]रजः तमः च अभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमः च एव तमः सत्त्वं रजः तथा ॥ १० ॥
अन्वयः
[सम्पादयतु]भारत ! रजः तमः च अभिभूय सत्त्वं भवति । रजः सत्त्वं च अभिभूय तमः एव (भवति) तथा तमः सत्त्वम् अभिभूय रजः (भवति) ।
शब्दार्थः
[सम्पादयतु]- अभिभूय = अतिक्रम्य ।
अर्थः
[सम्पादयतु]अर्जुन ! यद्यपि एतेषां त्रयाणां गुणानां बुद्धौ समानत्वं तथापि क्वचित् सत्त्वम् अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यं सुखं जनयति । क्वचित् रजः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् दुःखम् । क्वचित् च तमः अन्यत् गुणद्वयम् अधःकृत्य स्वकार्यम् अविवेकम् । अत एवेदं प्राणिषु तारतम्यम् ।