रतिविजयम्
रतिविजयम् | |
---|---|
ध्यानमग्नः शिवः | |
लेखकः | रामस्वामी |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
रतिविजयस्य लेखको रामस्वामी शास्त्री न्यायाधीश आसीत् । कुम्भकोनमवास्तव्येन अनेन १९२८ ख्रीष्टाब्दे नाटकमिदं विरचितम् । कवेः विशेषता नाटकस्य भरत-वाक्येन सुस्पष्टा भवति । यथा -
देशोऽयं भारताख्यं प्रथितसुखमयो धर्ममूलं च भूयात्।
वैषम्यं रागजन्यं भवतु च शमितं देशभक्तिप्रभावात्।।
अत्र वसन्तः शिवदग्धं भस्मावशेषं मदनं विलोक्यातीव सन्तप्तोऽस्ति । प्रियतमविरहविधुरा रतिरपि तस्यैव पुरतः करुणक्रन्दनं प्रारेभे -
स्मरामि नित्यं परिपूर्णचन्द्रप्रभासमानद्युतिवक्त्रबिम्बम्।
लीलावलोकं मधुरं कटाक्षं सुधामयं तस्य समन्दहासम्।। [१]
द्वितीयाङ्कानुसारं मदन-दहनेन अव्यवस्था समजनि । तृतीयाङ्के हिमालयशिखरे तपस्विनी रतिः पार्वतीप्रीत्यर्थं दुस्सहं तपश्चचार । तत्तपस्तुष्टा जगद्धात्री परमेश्वरी तां प्रत्याह - 'दीर्घसुमङ्गली भव' इति। त्वत्प्रार्थनापूरणाय परमेश्वरं प्रति तपः करोमि। चतुर्थेऽङ्के शिवो नैष्ठिकब्रह्मचारी वर्तते । पञ्चमाङ्के पार्वतीपरमेश्वरयोः विवाहस्य वर्णनं विद्यते ।
किरतनिया नाटकस्य प्रभावानुसारं रतिविजयं गीतबहुलं वर्तते । नाटकेऽस्मिन् प्रवेशक-विष्कम्भादीनामभावः । प्रतीकपात्रैः लोकानुरञ्जनं सविशेषं वर्तते । एकस्मिन्नेवाके सर्वाणि पात्राणि रङ्गपीठतो निर्गच्छन्ति । चतुर्थाङ्के पार्वत्या शिवनिन्दाप्रत्याख्यानं प्रकरणस्य तुन्दिलतां व्यनक्ति ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणानि
[सम्पादयतु]- ↑ १. ३८