राउरकेलानगरम्
राउरकेलानगरम् | |
---|---|
Anticlockwise from top left: Hanuman Vatika, National Institute of Technology, Rourkela, Rourkela Steel Plant, Banja Bhawan and Entrance Highway to Rourkela Main City. | |
भारतम् | सुन्दरगढः |
Elevation | २१६ m |
Population (2011) | |
• राउरकेलानगरम् | ४८३,०३८ |
• Density | ६,६९६/km२ |
• Metro | ५३६,४५०[१][२] |
ओडिया | |
Time zone | UTC+୫:୩୦ (IST) |
Area code(s) | 0661 |
Vehicle registration | OR-14/ OD-14 |
राउरकेला भारतस्य ओडिशाराज्यस्य उत्तरदिशिस्थितं प्रमुखं नगरम् । अयं खनिजसम्पदासमृद्धः अस्ति, मुख्यतया औद्योगिकनगरम् अस्ति । इदं नगरम् ओडिशाराजधानितः 340 किलोमीटर (211 मील) दूरे स्थितम् अस्ति । भारतस्य चण्डीगढस्य पश्चात् द्वितीयं विकसितं नगरम् इदम् अस्ति | नगरामिदं अनेकैः पर्वतैः, नद्यैः च परितः अस्ति । स्टील् अथॉरिटी आफ् इण्डिया लिमिटेड् इत्यस्य अन्यतमा बृहत्तमा कारखाना अत्रैव स्थितम् अस्ति । अत्र राष्ट्रियशिक्षानुष्ठान, बीजुपटनायकप्रौद्योगिकीविश्वविद्यालयः अपि अत्र एव अस्ति ।
नामकरणम्
[सम्पादयतु]राउरकेला इति नाम जर्मनभाषायाः “Ruhr रुर” शब्दात् निष्पन्नम् अस्ति । रुह्र् जर्मनीदेशस्य प्रमुखा औद्योगिकनदी अस्ति । जर्मनीदेशेन सह सहकारेण राउरकेलानगरे इस्पातसंस्थानं निर्मितम् । सुन्दरगडजिल्लायाः राउरकेलाजनैः उक्तं सद्रिभाषायाम् केलाइति अस्य अर्थः भवति ग्रामम् इति ।
२०११ तमे वर्षे भारतीयजनगणनानुसारं राउरकेलानगरस्य जनसंख्या ५,५२,२३९ अस्ति । अत्र राउरकेलानगरनिगमस्य तथा राउरकेलाइस्पातसहराञ्चलः जनाः मिलित्वा निवसन्ति । तेषु ५३ .८९% पुरुषाः आसन् यदा तु ४६. ११% महिलाः सन्ति । साक्षरताहार ७५. २४% । एतत् जातीयहारतः १०.४०% अधिकम् अस्ति । तेषु ४०.५७% प्रतिशतपुरुष अधिकं भवति । तथा ३१.६८% महिलाः सन्ति । ११..८४% जनाः ६ वर्षवयसतः अधः सन्ति ।
भाषा
[सम्पादयतु]ओडिया राउरकेलानगरस्य सरकारीभाषा अस्ति .।
- आदिवासीप्रधानमण्डलस्य मुख्यभाषा साद्री अस्ति ।
पर्यटनम्
[सम्पादयतु]राउरकेलानगरात् वेदव्यासस्य दूरता केवलं ९ कि.मी. । अत्र सङ्गमस्थलम् अस्ति, सरस्वतीकुण्डतः निर्गतः निर्झरः, शंख-कोएल-नद्यैः सह सङ्गमेन नूतना नदी निर्मितः अस्ति । अदृश्यसरस्वत्याः गङ्गयमुना -सङ्गमस्य अनन्तरं देशस्य बृहत्तमसङ्गमस्य इलाहाबाद-नगरे केवलं गङ्गानदी एव अग्रे प्रवहति, वेदव्यासङ्गमात् अपरा नूतना नदी निर्गतवती । इलाहाबादनगरे सरस्वतीनदी न दृश्यन्ते, वेदव्यासे इत्यत्र सुन्दरं सरस्वतीकुण्डं सरस्वतीमन्दिरं च अस्ति । पातालीनिर्झरस्य जलं सरस्वतीकुण्डतः निर्गतः भुत्वा सङ्गमस्थले मेलनं भवति । |
अद्यत्वे अपि वेदव्यासस्य गुहायां महामुनिवेदव्यासस्य पादचालनदण्डः, पदुके च सुरक्षिताः सन्ति । शङ्खकोएलनद्ययोः सङ्गमे पराशरघुतुकुर-नामकः पर्वतः अस्ति । पर्वतस्य शिखरे शिवमन्दिरं पर्यटकान् आकर्षणं करोति, पर्वतस्य पश्चिमे पादे स्थितं सास्वतीकुण्डं पर्यटनस्थलेषु अन्यतमम् अस्ति । पराशरघुटूकुरापर्वतस्य पाददेशे शिवस्य सुन्दरं मन्दिरं दृश्यते । प्रारम्भे अस्मिन् मन्दिरे पूजा कृता आसीत् । जलप्रलयकाले यथा एतत् मन्दिरं जलमग्नं अभवत् । परन्तु पश्चात् पर्वतस्य उपरि मन्दिरं निर्मितम् । एतदतिरिक्तं कोएलनद्याः तटे स्थितेषु गौतमीघुटूकुरापर्वतेषु बहवः पर्यटकाः भ्रमनार्थम् आगच्छन्ति ।