राबर्ट् कोख्
राबर्ट् कोख् | |
---|---|
जननम् |
Clausthal, Kingdom of Hanover | ११ १८४३
मरणम् |
२७ १९१० Baden-Baden, Grand Duchy of Baden | (आयुः ६६)
देशीयता | German |
कार्यक्षेत्राणि | Microbiology |
संस्थाः | Imperial Health Office, Berlin, University of Berlin |
मातृसंस्थाः | University of Göttingen |
संशोधनमार्गदर्शी | Friedrich Gustav Jakob Henle |
विषयेषु प्रसिद्धः |
Discovery bacteriology Koch's postulates of germ theory Isolation of anthrax, tuberculosis and cholera |
प्रभावितः | Friedrich Loeffler |
प्रमुखाः प्रशस्तयः | Nobel Prize in Medicine (1905) |
(कालः – ११. १२ .१८४३ तः २७. ०५ .१९१०)
अयं राबर्ट् कोख् (Robert koch) ब्याक्टीरियाविज्ञानस्य पितामहः । अयं राबर्ट् कोख् जर्मन्-देशस्य हानोवर् इति प्रदेशे १८४३ तमे वर्षे डिसेम्बरमासस्य ११ दिनाङ्के जन्म प्राप्नोत् । अस्य पितुः १३ पुत्रेषु अयम् अपि अन्यतमः आसीत् । अस्य पिता खनितन्त्रज्ञः आसीत् । एषः राबर्ट् कोख् बाल्यादारभ्य अपि प्रकृतिविषये आसक्तः आसीत् । १८६६ तमे वर्षे वैद्यपदवीं प्राप्नोत् । अनन्तरं ५ वर्षाणि यावत् वैद्यालये कार्यम् अकरोत् । सः यदा वोल्स्टीन् प्रदेशस्य वैद्याधिकारी आसीत् तदा तत्रत्यानां मनुष्याणां रोगाणां निवारणेन सह पशुपक्षिणां रोगाणां निवारणस्य दायित्वम् अपि तस्यैव आसीत् । सः राबर्ट् कोख् तत् दायित्वद्वयम् अपि आसक्त्या श्रद्धया च निरवहत् । अग्रिमाणि दश वर्षाणि यावत् पुनः लघु लघु प्रदेशेषु कार्यं निरवहत् । किन्तु तस्य मनः प्रायोगशालायां कार्यं कर्तुम् इच्छति स्म ।
कदाचित् तस्य राबर्ट् कोखस्य जन्मदिने तस्य पत्नी तस्मै एकं सूक्ष्मदर्शकयन्त्रम् उपायनरूपेण अयच्छत् । तदेव तस्य रबर्ट् कोखस्य अमूल्यम् उपकरणम् अभवत् । सः प्रथमं तेन यन्त्रेण मृतायाः कस्याश्चित् धेनोः रक्तस्य परीक्षाम् अकरोत् । तदवसरे तेन अरोगवतां प्राणिनां शरीरे अविद्यमानं किञ्चित् वस्तु तस्मिन् रक्ते दृष्टम् । सः राबर्ट् कोख् १८९७ तमे वर्षे धेनूनां "प्लेग्”रोगस्य तथा मलेरियारोगस्य च विषये संशोधनम् अकरोत् । तेन प्रयोगेण सूक्ष्मजीविनः एव तेषां रोगाणां कारणाम् इति ज्ञातम् । मेषाणां विचित्ररोगस्य "अन्थ्राक्स्” इत्यस्य शलाकाकारकाः ब्याक्टीरीयाः (ब्यासिल्लै) एव कारणम् इत्यपि संशोधनम् अकरोत् । तस्य कार्यं तदा सुलभं न आसीत् । तस्य प्रयोगार्थं स्थलम् एव नासीत् । अतः सः स्वस्य गृहस्य उपवेशनाङ्गणम् एव प्रयोगशालारूपेण परिवर्तितवान् आसीत् । तत्र सर्वत्र तेन उपयुज्यमानानि उपकरणानि पतितानि भवन्ति स्म । सर्वत्र गृहे रासायनिकानां वस्तूनां कटुगन्धः , शशमूषकाणां मलमूत्रादीनां गन्धः वा प्रसृतः भवति स्म । तस्य सम्पूर्णं लक्ष्यं संशोधनदिशि एव आसीत् इति कारणतः सदा प्रयोगनिरतः भवति स्म । तेन धनस्य सम्पादनं न्यूनं जातम् । तदवसरे गृहस्य निर्वहणम् एव कर्तुं न शक्यते स्म । अयं राबर्ट् कोख् तादृश्यां परिस्थितौ अपि धैर्यहीनः न जातः । स्वीयं संशोधनकार्यम् अनुवर्तितवान् । किञ्चित् कालानन्तरं विभिन्नानां सङ्घ-संस्थानां द्वारा गौरवसमर्पम् आरब्धम् । नूतनानाम् उद्योगानाम् आह्वानानि अपि आगतानि । जर्मन्-सर्वकारः एव तं राबर्ट् कोखं बर्लिन्-नगरे स्थितम् इम्पीरियल् हेल्त् इन्स्टिट्यूट् प्रति प्रेषयित्वा संशोधनार्थम् आवश्यकानि आनुकूल्यानि अकल्पयत् । लण्डन्-नगरे प्रवृत्ते विश्ववैद्यसम्मेलने तेन राबर्ट् कोखेन प्रस्तुतः अन्थ्राक्स्-सम्बद्धः प्रबन्धः सर्वेषां प्रशंसां प्राप्नोत् । तत्र प्राप्तेन प्रोत्साहेन राबर्ट् कोख् मारकरोगस्य क्षयस्य कारणं संशोधयितुम् उद्युक्तः अभवत् । वर्षद्वये एव सः तस्मिन् कार्ये सफलः अभवत् अपि । तथैव जिलेटिन् मध्ये विभिन्नाः ब्याक्टीरियाः वर्धयितुं शक्यन्ते इत्यपि संशोधितवान् । जर्मन्-सर्वकारः तं राबर्ट् कोखं
भारतं तथा ईजिप्तं प्रति कालरारोगिणां परीक्षणार्थं प्रेषितवान् । तदा अपि राबर्ट् कोख् कालरारोगस्य कारणीभूतान् ब्याक्टीरियान् संशोधितवान् । तथैव तेषां ब्याक्टीयाणां वर्धनस्य नियन्त्रणं कथं करणीयम् इत्यपि अदर्शयत् । तस्य राबर्ट् कोखस्य एतादृशस्य महाकार्यस्य निमित्तं सः १९०५ तमे वर्षे "नोबेल्” पुरस्कारेण सम्मानितः अपि । अयं राबर्ट् कोख् ६७ वर्षाणि यावत् अजीवत् । १९१० तमे वर्षे मेमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।
बाह्यानुबन्धः
[सम्पादयतु]- ID Tree: Robert Koch Details
- Robert Koch Biography at the Nobel Foundation website
- MPIWG-Berlin, Robert Koch Biography and bibliography in the Virtual Laboratory of the Max Planck Institute for the History of Science
- Biography on the Science Museum web site Archived २०१६-०१-२५ at the Wayback Machine
- Musoptin.com, original microscope out of the laboratory Robert Koch used in Wollstein (1877)
- Musoptin.com Archived २००८-१२-१८ at the Wayback Machine, microscope objectives: as they were used by Robert Koch for his first photos of microorganisms (1877–1878)