राबर्ट् ब्रौन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Robert Brown
Robert Brown in 1855
जननम् (१७७३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२१)२१ १७७३
Montrose, Scotland
मरणम् १० १८५८(१८५८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१०) (आयुः ८४)
London, England
देशीयता Scottish
कार्यक्षेत्राणि Botany
विषयेषु प्रसिद्धः Brownian motion
लेखकनामोल्लेखः(सस्यशास्त्रम्) R.Br.


(कालः – २१. १२. १७७३ तः १०. ०६. १८५८)

अयं राबर्ट् ब्रौन् (Robert Brown) कोशकेन्द्रस्य (न्यूक्लियस्) संशोधकः । सः १७७३ तमे वर्षे डिसेम्बर्-मासस्य २१ तमे दिनाङ्के जन्म प्राप्नोत् । एषः स्काट्लेण्ड्-देशे आङ्ग्लिकन् धर्मगुरुः (पाद्री) आसीत् । सः राबर्ट् ब्रौन् वृत्त्या सैन्ये वैद्याधिकारी आसीत्, प्रवृत्त्य विज्ञानी आसीत् । यदा सैन्ये विरामः प्राप्यते स्म तदा सर्वदा सः सस्यानि सङ्गृह्य अभ्यासम्, अध्ययनं करोति स्म । यदा सः राबर्ट् ब्रौन् ऐर्लेण्ड्-देशे आसीत् तदा तेन प्रख्यातस्य आङ्ग्लीयस्य सस्यविज्ञानिनः सर् जोसेप् ब्याङ्कस्य सख्यं प्राप्तम् । तस्य जोसेफ् ब्याङ्कस्य साहाय्येन आस्ट्रेलियादेशे "प्रकृतितज्ञ”स्य उद्योगं प्राप्नोत् । ततः प्रत्यागमनावसरे बहुविधानि सस्यानि सङ्गृह्य आनीतवान् । तानि सर्वाणि अपि सस्यानि जेस्यु तथा क्यांडोलस्य प्राकृतिकेन क्रमेण एव वर्गीकृतवान् अयं राबर्ट् ब्रौन् । तस्य कार्यस्य फलरूपेण अयं राबर्ट् ब्रौन् "लिनेयन् सौसैटि" इत्यत्र ग्रन्थपालकत्वेन नियुक्तः अभवत् ।

अनेन राबर्ट् ब्रौनेन कृतेषु संशोधनेषु प्रमुखं संशोधनद्वयम् । प्रथममं संशोधनं – सर्वेषु अपि सस्यकोशेषु काचित् समाना रचना भवति । तां रचनां संशोध्य तस्याः "कोशकेन्द्रम्” इति (न्यूक्लियस्) नामकरणं कृतम् । अपरं संशोधनं – परागरेणवः जले अनिर्दिष्टरीत्या चलन्ति इत्येतत् । ते परागरेणवः सजीवाः इति कारणात् एव तथा चलनं भवति इत्यपि अयं राबर्ट् ब्रौन् एव ज्ञापितवान् । तेनैव सह निर्जीवाः कणाः अपि अनिर्दिष्टरीत्या चलन्ति इत्येतत् अपि संशोधितवान् । तेषां "ब्रौनियन् मोषन्” इत्यपि नामकरणम् अकरोत् । तदेव नाम इदानीम् अपि विज्ञानक्षेत्रे व्यवहारपथे अस्ति । अयं राबर्ट् ब्रौन् बहुषु विषयेषु आसक्तः आसीत् । सम्पूर्णतया नष्टानां (प्रकृतं भूमौ कुत्रापि नास्ति) जीविनां विषये अपि विस्तरेण अभ्यासं संशोधनं च कृतवान् आसीत् । अयं राबर्ट् ब्रौन् १८५८ तमे वर्षे जून्-मासस्य १० दिनाङ्के मरणम् अवाप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=राबर्ट्_ब्रौन्&oldid=480876" इत्यस्माद् प्रतिप्राप्तम्