रामफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रामफलसस्यम्
पूर्णं कर्तितं च रामफलम्
वृक्षे दृश्यमानानि रामफलानि
शाखायां दृश्यमानं रामफलम्

एतत् रामफलं भारते अपि वर्धमानस्य कस्यचित् वृक्षविशेषस्य फलम् । एतत् रामफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् रामफलम् आङ्ग्लभाषायां Custard Apple इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Annona reticulata इति । एतत् रामफलम् अकृष्टपच्यम् अपि । एतत् रामफलं देवस्य नैवेद्यार्थम् अपि उपयुज्यते ।

एतस्य रामफलस्य वृक्षः भारतं विहाय दक्षिणपूर्व-एष्या, तैवान्, आस्ट्रेलिया, आफ्रिका इत्यादिषु देशेषु अपि वर्धते । कदाचित् सः वृक्षः ३३ पादमितं यावत् उन्नतः अपि भवति । एतत् रामफलं मधुररुचियुक्तं भवति । फलम् एतत् पीतवर्णीयम् अथवा कपिलवर्णीयं वा भवति । इदं रामफलम् ईजिप्त् देशे अपि वर्धते । किन्तु तत्रत्यं फलं हरिद्वर्णीयम् एव भवति । अस्य फलस्य मातृभूमिः भारतम् एव । अत्रत्यं फलम् अत्यन्तं मधुरं भवति । इदानीम् एतत् रामफलं बीजरहितम् अपि लभ्यते ।

"https://sa.wikipedia.org/w/index.php?title=रामफलम्&oldid=447350" इत्यस्माद् प्रतिप्राप्तम्