ळ्ह
- संयुक्ताक्षरं यत् ळ्, ह् इति वर्णयोः संयोगं सूचयति।
- गतकाले, देवनागरीलिपिना लिखितेषु वैदिकशास्त्रेषु ऴ इति अक्षरस्य उच्चारणार्थं ळ्ह इति लिपिः प्रयुक्ता आसीत्।
यथा -
प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥(ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १)
स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः॥ (ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १०)
यथा च -
ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः।
दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥(ऋग्वेदः, सूक्तं ६.६०, मन्त्रं २)
ता नो वाजवतीरिष आशून्पिपृतमर्वतः।
इन्द्रमग्निं च वोळ्हवे॥ (ऋग्वेदः, सूक्तं ६.६०, मन्त्रं १२)
यथाऽपि -
पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे।
स नो यवसमिच्छतु॥ (ऋग्वेदः, सूक्तं ७.१०२, मन्त्रं १)
केवलं केचन वेदशाखाः ऴ (पुरा, ळ्ह इति लिपिः) ध्वनिः धारयन्ति स्म। केचन शाखाः तस्य स्थाने ढ शब्दस्य प्रयोगं कुर्वन्ति स्म। ऴ (पुरा, ळ्ह इति लिपिः) शब्दप्रयुक्तानां शाखानां विलुप्ततायाः सह तत् अक्षरमपि विलुप्तं जातम्। अद्यतनकालपर्यन्तं लौकिकसंस्कृते एतत् अक्षरं प्रायः नासीत्।
आधुनिककाले, देवनागरीलिप्यां सर्वदा ऴ इति लिपिः प्रयुक्ता भवति।
अधिकविवरणार्थं ऴ इति नामकं लेखां पश्यतु।