वक्तुमर्हस्यशेषेण...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्मविभूतयः याभिः विभूतिभिः लोकान् इमान् त्वं व्याप्य तिष्ठसि ॥ भगवद्गीता १०।१६ ॥

अन्वयः[सम्पादयतु]

याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, (या:) आत्मविभूतयः दिव्याः, ता: अशेषेण वक्तुम् अर्हसि ।

शब्दार्थः[सम्पादयतु]

याभिः विभूतिभिः = यैः माहात्म्यविस्तरैः
इमान् लोकान् = एतान् लोकान्
व्याप्य = आक्रम्य
तिष्ठसि = वर्तसे
दिव्याः हि = लोकोत्तोरान्
आत्मविभूतयः = माहात्म्यविस्तरान्
अशेषेण = साकल्येन
वक्तुम् अर्हसि = कथयितुम् अर्हसि ।

अर्थः[सम्पादयतु]

भवान् स्वीयैः ऐश्वर्यैः एतान् लोकान् अभिव्याप्य तिष्ठति । तानि सर्वाणि अपि ऐश्वर्याणि साकल्येन कथयितुम् अर्हति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वक्तुमर्हस्यशेषेण...&oldid=418812" इत्यस्माद् प्रतिप्राप्तम्