वशिष्ठधर्मशास्त्रम्
सूर्यवंशकुलगुरोमहर्षेर्वशिष्ठस्य धार्मिकजगति महत्त्व पूर्ण स्थानमस्ति । एते महान्तः अस्माकं स्मृतिकारेषु आदरार्हे उच्चस्थाने प्रतिष्ठिता धर्मसूत्रकाराः सन्ति । येषां धर्मशास्त्रं मात्रायां स्वल्पकायेऽपि गुणेषु विपुलं महनीय ञ्चास्ति । सुप्रसिद्धमीमांसकाः कुमारिलभट्टाः स्वीये तन्त्रवात्तिके वशिष्ठधर्मशास्त्रस्य सम्बन्धः ऋग्वेदेन सह कथयन्ति, परञ्चायं प्रायोवादः । ऋग्वेदिनां पार्वे स्वस्वतन्त्र धर्मशास्त्रं पासीत् । फलतः स्वतन्त्ररूपेण निर्मितममुं धर्मशास्त्रं स्वायत्तीकृत्य एतैः अस्योपरि स्ववेदस्य चिह्न स्थापितम् । अस्य ग्रन्थस्य प्रायश्चित्तप्रकरणे यथा ऋग्वेदस्य 'अयवामीय'-'हविष्पान्तीय'-'अघमर्षण' सूक्तस्य च मन्त्राणामुल्लेखो विद्यते, तथैव तैत्तिरीयसंहिताया अपि अनेकमन्त्राणां निःसन्दिग्धमुद्धरणं विद्यमानमस्ति ।
एतत् सत्य मस्ति यत्-वाशिष्ठधर्मशास्त्रं ऋग्वेदस्याङ्गं नासीत् । तथापि ऋग्वेदेन सहास्य धर्म शास्त्रस्य सम्वद्धता-स्वीकरणाय तर्कस्य न्यूनता नास्ति । एतद् ध्यातव्यं यत् वाशिष्ठधर्म शास्त्रं गृह्यविपयेभ्यः ( यथोपनयन-अनध्याय-स्नातकस्य नियमाः, पञ्चमहायज्ञादयः ) साङख्यायनगृह्यसूत्रेण सह घनिष्ठं सम्बन्ध स्थापयति । वाशिष्ठधर्मशास्त्रस्यानेकानि सूत्राणि ऋग्वेदस्य विभिगुह्यः साङ्ख्यायन-आश्वलायन-कौषीतक्यादिभिः सहाश्चर्य जनिकां समतां स्थापयन्ति । एतादृश्यामवस्थायां वाशिष्ठधर्मशास्त्रमृग्वेदस्य सम्बद्धता परिवं हितं, स्वीकारे विशेपा विप्रतिपत्तिर्न भवितव्या । वशिष्ठस्य मूलं धर्मशास्त्रं काल प्रवाहे परिवं हितं परिवधितं परिवत्तितञ्चाभूत् । यतो हि हस्तलेखेषु अध्यायानां संख्या एकसदशी नास्ति । क्वचित् ६, क्वचित् २, कुत्रचिच्च शिदध्यायानां प्राप्तिः अस्य परिणस्य परिचायिका विद्यते । त्रिंशदध्याययुक्तोऽयं ग्रन्थः अद्यत्वे प्रमाणभूतः सर्वत्रोपलब्धो भवति ।
गौतमधर्मशास्त्रेण सहास्य ग्रन्थस्य विशेषः सम्बन्धः परिलक्षितो भवति । वशित धर्मसूत्रस्य विंशतितमोऽध्यायो गौतमधर्मसूत्रस्य च एकोनविंशतितमेऽध्याये महत्सा मस्ति । अन्यत्राप्यर्थतः शब्दतो वा समानताया अभावो नास्ति । प्रमाणानामभ कठिनोऽयं निर्णयो यत् कः केन समुद्धृतो भवति-वशिष्ठो गौतमात् ? उत गौत। वशिष्ठात् ? अत्यधिका सम्भावना विद्यते यत्-समादरणीयमेतद्धर्मशास्त्रद्वयं त युगस्य रचने स्यातां, यस्मिन् युगे पारस्परिकमादानप्रदानं न्याय्यमासीत् । साम्प मनुस्मृतौ वशिष्ठधर्मशास्त्रे च दश श्लोका अक्षरशः समानाः सन्ति । मनुस्मृतेः श्लोक अत्र गद्यात्मकसूत्रेषु परिणता दृष्टिगोचरा भवन्ति । अतो विदुषां बलवती धारणा विद्यते यत्-वशिष्ठस्य धर्मशास्त्रमेव वर्तमानकाले प्राप्तमनुस्मृतेरस्य प्राचीनविश मूलरूपाद्वा एतान् श्लोकान् समुद्धरति ।
स्मृतिकारस्य वशिष्ठस्य ख्यातिः प्राचीनेष स्मृतिग्रन्थेषु बहुशः प्राप्नोति । याज्ञवल्क्येन स्वस्मृतौ प्राचीनेषु स्मृतिकारेषु वशि स्योल्लेखः कृतः। कुमारिलेनाप्यस्य सादरं निर्देशः तन्त्रवातिके कृतः । अपि च विश्वरूपेण याज्ञवल्क्यस्मृतेष्टीकायां मेधातिथिना च मनुभाष्ये वशिष्ठधर्मशास्त्रस्य मतानामुद्धरणं ससम्मानं बहुशः कृतम् । एतेनेदं स्पष्टं भवति यदस्याः स्मृतेः समादरं धर्मशास्त्रस्येतिहासे प्रामाण्यस्योपयोगस्य च दृष्टयाऽधिकं क्रियते स्म । अत्र विशेषतो ध्यातव्यमस्ति यद् वशिष्ठो वृद्ध वशिष्ठश्च एतन्नामको द्वावपि स्वतन्त्री स्मृतिकाराव भूताम् ।
वृद्धवशिष्ठस्य कोऽपि स्वतन्त्रो ग्रन्थो यद्यप्यद्यापि नोपलब्धस्तथापि अवान्तर कालीन-भाष्याणां निबन्धकाराणाञ्च साक्ष्ये वृद्धवशिष्ठस्य ग्रन्थस्य सत्ता ( स्थितिः ) निश्चितरूपेण प्रमाणिता भवति । विश्वरूपेण याज्ञवल्क्यस्यैकस्य श्लोकस्य ( १।१९) टीकायां वृद्धवशिष्ठस्य मतस्योल्लेखः कृतः । मिताक्षरायां (२।१९ ) 'जयपत्रस्य' लक्षणमेषां ग्रन्थात् समुद्धृतमस्ति । स्मृतिचन्द्रिकायामनुमानतो विंशतिः श्लोकाः आह्निकस्य श्राद्धस्य च विषये उद्धृताः सन्ति । एतेनायं निष्कर्षो निःसरति यत् वृद्ध वशिष्ठस्य स्मृतिरपि प्राचीना विद्यते । या याज्ञवल्क्यस्मृतिरिवाचारेण सह समस्तानां व्यवहाराणामपि विशेषवर्णनं करोति ।
ग्रन्थाभावे वयं वशिष्ठस्य वृद्धवशिष्ठस्य च पारस्परिकसम्बन्धस्य विषये किमपि कथयितुं न पारयामः । वशिष्ठस्य श्लोकबद्धा स्मृतिः अधुनापि प्रकाशिता न वेति-इत्यस्मिन् विषये मम ज्ञानमपर्याप्तं विद्यते । परञ्चास्य हस्तलेखास्तु प्राप्यन्त एवेति ।
इयं स्मृतिः परिमाणेऽलमतिविस्तृता विद्यते । अस्याः स्मृतेः दशाध्यायेषु ११०० श्लोकाः सन्ति । येषु स्मृतिसम्बद्धानां नानाविषयाणां-यथा स्त्रीधर्म-श्राद्ध-अशौच विष्णुमूर्तिप्रतिष्ठा-विष्णुपूजनादीनां विस्तृत विवेचनमस्ति । ।
वशिष्ठस्य धार्मिकं मतम्
[सम्पादयतु]स्मृतिकारस्य वशिष्ठस्य सिद्धान्तस्य मतस्य चाद्यत्वे परिज्ञानस्यकमात्र साधनमस्ति तेषां धर्मशास्त्रम् । यद्धि त्रिंशदध्यायेष विभक्त विशेषतः सूत्रेषु रचितमस्ति । क्वचित् क्वचित् श्लोका अपि प्रदत्ताः सन्ति । आचारस्य. व्यवहारस्य, प्रायश्चित्तस्य चेति त्रयाणां विषयाणां वर्णनं पूर्णतां ख्यापयति । प्रारम्भिकस्य चतुर्दशाध्यायेपु-आचाराणाम्, मध्यवर्तिनां पञ्चाध्यायेषु ( १५-१९) व्यवहारस्य, अवसाने चैकादशाध्यायेषु (२०-३० ) प्रायश्चित्तस्य महत्त्वपूर्ण वर्णनं ग्रन्थस्योपादेयतायाः स्पष्टं प्रमाणमस्ति ।
वशिष्ठेन स्वमतानां प्रतिपादनं स्वल्पे । सत्रशैल्याम् ) परञ्चातिसुस्पष्ट भाषायां कृतमस्ति । मौलिकविचारस्य प्रौढविवे चनायाश्च चिह्न ग्रन्थस्य प्रतिपृष्ठे वर्तमानमस्ति । अन्येषां स्मृतिकाराणामिव वशिष्ठस्यापि पूर्णाग्रहः 'आचारे' वर्तते । आचार एव प्रतिमानवं समाजञ्च मान्यतां, दीर्घजीवनं सत्कारञ्च प्रापयति । शास्त्राभ्यासः, विद्याया उपार्जनं, विज्ञानस्योपार्जनम वश्यमेव काम्यमुपादेयञ्च वस्तु विद्यते । परञ्च व्यवहारेण विना, अर्थात् आचाररूप परिणत्या विना, एतत्सर्वं भारमात्र मेवास्ति । अत एव वशिष्ठस्यैतत् कथनं समीचीनं वर्तते यत् -
'आचार: परमो धर्मः सर्वेषामिति निश्चयः ।
हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति' ।।
अत्रायमाशयो विद्यते यत्--आचारहीनाय जनाय लोकद्वयं नष्टं भवति । तथा । चोक्तम् -
'आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥ स्पष्टमेतत् ।
अस्मिन्नेव प्रसङ्गे चतुराश्रम-स्नातकानां गृहस्थानाञ्च नियमानां विवेचनमति- . सरलतया कृतमस्ति ।
त्रयोदशाध्याये श्रावणीकर्मणः, वेदाध्ययनस्य, अनध्यायस्य च विषया अपि सौष्ठवेन निबद्धाः सन्ति । चतुर्दशेऽध्याये भक्ष्याभक्ष्ययोनिर्णयोऽपि तात्कालिकस्य समाजस्य रूपरेखापरिज्ञाने नितान्तं सहायक: सिद्धयति ।
भारतवर्षस्य सामाजिको जनः आर्यजातेरविच्छिन्नताया निरन्तरमभिलाषुक आसीत् । वैदिका आर्यगणा देवानां स्तुतिपाठानन्तरं तेभ्यः सुयोग्यपुत्रेभ्य: प्रार्थनां कुर्वन्ति स्म—'सुवीरासः स्याम्' । लातिनीभाषायाः 'विरुस' शब्देन सम्बद्ध : संस्कृते 'वीरस' शब्द: मुख्यतया पुरुषस्य द्योतकोऽस्ति । पुरुषेण सह 'पौरुषस्य' कल्पना संवलितत्वात् अस्य 'पराक्रमी' अर्थो गौणो विद्यते । अस्य मुख्यार्थोऽस्ति-मनुष्यः, पुत्रः- यस्मै वेदे बहुशः प्रार्थना विद्यते । 'प्रजातन्तुं मा व्यवच्छेत्सी:' 'अपुत्रस्य गतिर्नास्ति' इत्यादीनि श्रुतिवाक्यानि अस्यैव तथ्यस्य द्योतकानि सन्ति । अन्य स्मृतिकाराणामिव वशिष्ठोऽपि प्रजातन्तु-छेदनस्य निषेधं कुर्वन् आह--
'ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेद् जीवतो मुखम् ॥
अस्य सप्तदशाध्याये नानापुत्राणां लक्षणं तुलनात्मकमहत्त्वस्य च दृष्टया चातिशयं महत्त्वपूर्णमस्ति । येन दायभागस्य निर्णयाय महत्साहाय्यं मिलति । वशिष्ठस्य कतिपयानि स्वतन्त्राणि मतानि सन्ति यानि प्राचीनतमेषु स्मृतिग्रन्थेषूपलब्धानि न भवन्ति । एतादृशेषु स्वतन्त्रमतेषु शूद्रया ब्राह्मणस्य विवाहनिषेधः, दत्तकस्य विधानं, व्यवहारस्य प्रसङ्गे 'लेखस्यापि साक्ष्ये उपयोगः' इत्येतानि मतानि महत्त्वपूर्णानि स्वीकृतानि । राज्ञः पुरोहितस्य च धर्मोऽपि वशिष्ठस्य दृष्टो-अन्यस्मृतिकाराणामिव गौरवं स्थापयति ।
एवमेव राज्ञः पुरोहितस्य चानुकूल्यमैकमत्यञ्च राष्टस्य मुख्यं कारणं प्रतिपादितमस्ति । भारतीय-राजनीतेः मूलसिद्धान्तोऽस्ति यत, परिचालने क्षात्रतेजसा सह ब्रह्मत्वस्य पूर्ण सहयोगे प्राप्ते सति प्रदेशस्य राष्ट समृद्धिः सुनिश्चिता भवति । सत्यमुक्तं वशिष्ठेनास्मिन् विषये ब्राह्मणग्रन्थेभ्यः 'ब्रह्म पुरोहितं राष्ट्रमृघ्नोतीति'। महाकविना कालिदासेनानेकशताब्द्यनन्तरमिमां राष्ट्रभावनां पवनस्य-अग्नेश्च सुपरिचितं दृष्टान्तं प्रदाय परिपुष्टीकृतम् । तद्यथा रघुवंशे ( ८४ ) प्रोक्तम् -
‘स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा' ।
अत्रायमाशयः-राज्ञ एतत् मुख्य कार्यमस्ति-देशस्य रक्षणमपराधिनाञ्च दण्डनम्, दण्डेन दण्डितोऽपराधी स्वपापैः मुक्तो भूत्वा निर्मलः सञ्जायते । अपि च पुण्यात्मनामिव स्वर्ग प्रयाति । भूपतिर्यदि अपराधिने दण्डं न ददाति तदा तत्पापं तं राजानमाकर्षति । अस्मात् कारणात् स्वकल्याणाय, समाजकल्याणायापराधिनः कल्याणाय चापि-अपराधिने दण्डदानं राज्ञ मुख्यं कर्त्तव्यं भवति । तद्यथा तत्रैव ( १९।४५ ) -
'राजभिधृतदण्डास्तु . कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा' ।
अन्तिमाष्टाध्यायेषु प्रायश्चित्तस्यावसरेऽनेकानां वैदिकमन्त्राणां जपस्य तैश्च मन्त्र हवनस्य विशेषं विधानमपि मिलति । अन्तिमोऽध्यायः समग्र-धर्मशास्त्रस्य कुञ्चि काऽस्ति-धर्ममहिम्नः प्रशस्तिरस्ति । प्राच्यभारतीयस्मृतिकाराणां स्वरं सम्मेल्य महर्षिर्वशिष्ठः इदमुच्चर्घोषयति । तद्यथा-
'धर्म चरत माऽधर्म सत्यं वदत माऽनृतम् ।
दोघं पश्य मा ह्रस्वं परं पश्यत माऽपरम् ॥
अत्रायं स्पष्टार्थः-वशिष्ठस्येयं शिक्षा समस्तमानवानां कल्याणाय प्रवर्तते । इमे महर्षयः आर्यसभ्यताया उन्नायकेषु महर्षिगणेषु अन्यतमाः सन्ति । अस्मात् कारणा देव यूनानीसभ्यतया संस्कृत्या च परिचिता इमे महर्षयोऽस्मान् आर्यभाषासंस्कृतस्य पठन-पाठनायोपदिशन्ति । अनेन प्रकारेणान्तरङ्ग-बहिरङ्गप्रमाणानामाधारे वशिष्ठस्यास्य धर्मशास्त्रस्य कालो विक्रमपूर्व-तृतीयशतक: स्वीकर्तव्यः ।
यस्मिन् काले भारतीया जना यूनानी-जनानां सभ्यतया, भाषया व्यवहारेण च प्रथमं परिचिता अभवन् । यत्त म्लेच्छभापाया: शिक्षणस्य निषेधं कुर्वन्त्येते-'न म्लेच्छभाषां शिक्षेत' इति कथयन्ति तत् संस्कृतभाषा-प्रवर्धनार्थमेवेति । सक्षेपेण वयं कथयिष्यामो यत महर्षे वंशिष्ठस्य जीवन दर्शनं नितान्तमुदात्तमेकान्तकर्मनिष्ठं पूर्णत आध्यात्मिकञ्चास्ति । तेऽस्मान स्वस्थान्, शिष्टान्, संस्कृतभारतीयान् विरच्य जीवनयापनस्योपदेशं प्रयन्ति । तथैव तस्याः तृष्णायाः परिहारस्य शिक्षा वदति, यां तृष्णां दुर्बद्धिः काठिन्येन परित्यजति । या व्यक्तेः जीर्णेऽपि स्वयं जीर्णा न भवति, या च प्राणान्तिको व्याधिर्भवति । तथा च -
'या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
याऽसौ प्राणान्तिको व्याधिस्तां तृष्णां त्यजतः सुखम् ॥
वशिष्ठस्य दृष्टौ 'दैवं' नितान्तं निरर्थकमस्ति । तेषां कथनमस्ति यत्-संसारे मृतशरीरातिरिक्त सर्वेषु क्रिया दृष्टिगोचरा भवति, समुचित क्रियाभिश्चैव फलं प्राप्नोति । अत एव 'दैवस्य' कल्पनैव निरर्थका भवति, तथा चोक्तं योगवाशिष्ठे -
'न च निष्पन्दता लोके दृष्टेह शवतां विना।
स्पन्दाच्च फलसम्प्राप्तिस्तस्माद् दैवं निरर्थकम् ॥