सामग्री पर जाएँ

विकिपीडिया:लेखस्य शीर्षकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेखस्य शीर्षकं लेखविषयस्य उपरि बृहद्भिः अक्षरैः लिखितं भवति । शीर्षकं लेखः कस्मिन् विषये विद्यते इति द्योतयति, अन्येभ्यः लेखेभ्यः इमं पृथक्करोति च । शीर्षकं लेखस्य विषयसूचकं वा व्यक्तेः नाम वा विषयस्य विवरणसूचकं वा भवेत् । लेखद्वयं समाननामकं भवितुं नार्हति इत्यतः भेदकल्पनाय कदाचित् शीर्षके विवरणमपि योजनीयं भवति । उत्तमं शीर्षकं स्पष्टं, लघु, सहजं, सुलभावगमञ्च स्यात् । अस्मिन् पृटे शीर्षकं कथं चेतव्यम् इति विषये मार्गदर्शकसूचनाः दत्ताः सन्ति ।

उत्तमं विकिपीडियाशीर्षकम् अधोनिर्दिष्टैः पञ्च गुणैः युक्तं स्यात् ।

  • सुलभावगमयोग्यम् – अस्मिन् लेखे कः विषयः विद्यते इत्येतत् शीर्षकस्य पठनेन सामान्येन अपि अवगमनयोग्यं स्यात् ।
  • सहजम् – वाचकैः विषयस्य अन्वेषणावसरे सहजतया यथा लिख्येत तथा स्यात् शीर्षकम् ।
  • सङ्क्षिप्तम् – शीर्षकं संक्षिप्तं स्यात् ।
  • स्पष्टम् - शीर्षकं स्पष्टञ्च स्यात् ।
  • सुसङ्गतम् – शीर्षकं सुसङ्गतं स्थिरं च स्यात् ।

लेखस्य आरम्भे प्रथमपङ्क्तौ स्थूलाक्षरेण शीर्षकं लेखनीयम् । शीर्षकस्य समनन्तरं श्रव्यम्(Audio), प्रादेशिकभाषया शीर्षकं च योजनीयम् । यथा -

अहमदाबाद (Listeni/ˈɑːmdəbɑːd/ (गुजराती: અમદાવાદ, आङ्ग्ल: Ahmedabad))-महानगरं गुजरातराज्यस्य अहमदाबादमण्डलस्य केन्द्रमस्ति ।

अनुसर्तव्याः नियमाः

१. लेखस्य शीर्षकदानावसरे आदौ लेखस्य विषयः केन नाम्ना अधिकं प्रसिद्धम् इति अवलोकनीयम् । तत् प्रसिद्धं नाम एव लेखस्य शीर्षकं स्यात् । अस्य लेखस्य शीर्षकम् अन्यासु भारतीयविकिपीडियासु (त्र्यधिकासु) दृष्ट्वा निर्णयः(प्रसिद्धिविषये) स्वीकर्तव्यः ।

नाम किं भवेत् किं न भवेत्
सचिन तेण्डुलकरसचिन रमेश तेण्डुल्कर
ए पि जे अब्दुल् कलाम्अबुल् पकीर् जैनुलाब्दीन् अब्दुल् कलाम्
प्रतिभा पाटिलप्रतिभा देवीसिङ्ग पाटिल
नरेन्द्र मोदीनरेन्द्र दामोदरदास मोदी

२. जनस्य नाम्नः लेखनावसरे तस्य प्रादेशिकभाषया कथं लिख्यते इति अवलोक्य शीर्षकं स्रष्टव्यम् ।

नाम किं भवेत् किं न भवेत् प्रादेशिकभाषा
बसप्प दानप्प जत्तिबसप्पा दानप्पा जत्तीकन्नड
नीलं सञ्जीवरेड्डीनीलम सञ्जीव रेड्डीतेलुगु
जाकिर हुसैनजाकिर् हुसैन् /जकिर हुसेन/ज़किरहिन्दी
सरदार वल्लभभाई पटेलसर्दार् वल्लभभायी पटेल्गुजराती
विजय् अमृतराज्विजय् अमृत् राज्तमिळ्
सायना नेहवालसैना नेह्वाल्पञ्जाबी

३. लेखस्य प्रसिद्धं नाम प्रादेशिकभाषातः भिन्नं चेत्, प्रसिद्धं नाम एव शीर्षकत्वेन भवेत् ।

नाम किं भवेत् प्रादेशिकनाम प्रादेशिकभाषा
प्लासीयुद्धम्पलासी युद्धम्वङ्गभाषा
अजन्तागुहाअजिण्ठा लेणीमराठी
बाल गङ्गाधर तिलकबाळ गंगाधर टिळकमराठी
प्रकाश् राज्प्रकाश् रैकन्नड

४. लेखस्य शीर्षकं हलन्तेन सह उच्चार्यते चेत् लेखने अपि हलन्तम् उपयोक्तव्यम् ।

नाम किं भवेत् किं न भवेत्
काङ्ग्रेस्काङ्ग्रेस/कांग्रेस
इन्फोसिस्इन्फोसिस/इंफोसिस
अथ्लेटिक्स्अथ्लेटिक्स/अत्लेटिक्स्
स्केटिङ्ग्स्केटिङ्ग/स्केटिंग

५. शीर्षके अनुनासिकवर्णस्य स्थाने तसैव उपयोगः करणीयः न तु अनुस्वारस्य शीर्षके सर्वदा वर्गान्तस्य वर्णस्य योग्यरीत्या उपयोगः कर्तव्यः । यथा - मालवङ्कर, शत्रुञ्जयपर्वतः, मार्तण्डः, गान्धी, चम्पावतमण्डलं

नाम किं भवेत् किं न भवेत्
मालवङ्करमालवंकर
शत्रुञ्जयपर्वतःशत्रुंजयपर्वतः
मार्तण्डःमार्तंडः
चन्दनम्चंदनम्
चम्पावतमण्डलम्चंपावतमंडलम्

६. लेखस्य शीर्षकं सुस्पष्टं स्यात् । यत्र अस्पष्टता विद्यते तत्र जातिसूचकपदम् अवश्यं योजनीयम् । उदा –

  • गङ्गा (नदी), गङ्गा (देवी), कपिला (नदी), कपिल (वर्णः), कपिल (मुनिः), शून्यम् (सङ्ख्या), शून्यम् (खगोलशास्त्रम्), मुद्रा (योगः), मुद्रा (नृत्यम्),

यत्र हलन्तस्य अनन्तरं जातिसूचकपदं लेखनीयं भवति तदा हलन्तस्य अनन्तरं (–) लेखनीयम्।

  • बिलियर्ड्स्-क्रीडा, टेबल्-टेनिस्-क्रीडा

७. विदेशीयभाषापदानि शीर्षकाणि चेत् उच्चारणम् अनुसृत्य लेखनीयम् । संस्कृतभाषायाः सामान्यनियमानुगुणं लेखने स्वरवर्णाः मध्ये अन्ते वा न भवेयुः । उदा –

  • आइसाक् – ऐसाक्, टाइटेनियम – टैटेनियम्, नाइट्रोजेन – नैट्रोजन्

८. आङ्ग्लभाषाभिन्नं विदेशीयपदं भवति चेत् उच्चारणानुगुणं (श्रव्यं श्रुत्वा) लेखनीयम् । उदा –

  • Novak Djokovic नोवाक् जोकोविक् (D-न उच्चार्यते) Tsunami – सुनामी (T – नोच्चार्यते)

९. संस्कृतभाषायां ’नुक्ता’याः(वर्णस्य अधः बिन्दुः - ज़ फ़) प्रयोगः न विद्यते इत्यतः लेखेषु अपि अस्य प्रयोगः न कर्तव्यः । उदा -

  • सानिया मिर्ज़ा, रमज़ान् ...

१०. ऑ, ऍ - एतयोः उपयोगः शीर्षकेषु उच्चारणानुगुणं कर्तुं शक्यते ।

११. संस्थानां नामादिकं संक्षेपरूपेण प्रसिद्धं चेत् तदेव शीर्षकं स्यात् – सि ए जि / सी ए जी (कम्ट्रोलर् एण्ड् आडिटर् जेनेरल्) , २ जि / २जी (सेकेण्ड् जेनेरेशन्) ।


अवधेयाः अंशाः

  • उपरि यानि नामानि न भवेयुः इति निर्दिष्टानि तानि सर्वाणि पुनर्निर्दिष्टपुटत्वेन (Redirected pages) भवेयुः एव । पृष्ठस्य शीर्षकं कथं भवेत् इत्येतावन्मात्रम् उपरि निर्दिष्टम् ।
  • व्यक्तेः स्थलस्य वा नाम्नः संस्कृतरूपम् आनेतुं शक्यं चेत् अवश्यं तत् पुटं निर्मीय पुनर्निर्देष्टव्यम् । उदा - उदयपुरम्, मध्यप्रदेशः, राजस्थानम्, जयपुरम्, बालगङ्गाधरतिलकः, भगतसिंहः, त्यागराजः, विवेकानन्दः, चिन्मयानन्दः ।