विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/अभिराज राजेन्द्र मिश्र:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभिराज राजेन्द्र मिश्र:[सम्पादयतु]

अभिराज राजेन्द्र मिश्र: १९४३ वर्षे जन्म प्राप्तवान् | एष: संस्कृतलेखक: , कवि:, नाटकरचयिता एवं वाराणसिस्थसंपूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिचर: वर्तते | सिम्ला प्रदेशस्थ हिमाचलप्रदेश विश्वविद्यालये संस्कृतविभागे विभागाध्यक्षरूपेण कार्यमकरोत् | इन्डोनेषिया विश्वविद्यालयस्य अतिथि-प्राचार्यरूपेण कार्यमकरोत् यश्च विश्वविद्यालय: इन्डोनेषियादेशे अति पुरातन: वर्तते |

अभिराज राजेन्द्र मिश्र: १९८८ वर्षे संस्कृतक्षेत्रे साहित्य अकाडमी पुरस्कारविजेता वर्तते | त्रिवेणी कवि: इति नाम्ना एष: प्रसिध्द: | संस्कृते , हिन्द्याम्, आङ्ले, भोजपुर्याञ्च एतेन बहु पुस्तकानि लिखितानि |

वैयक्तिक जीवनम्[सम्पादयतु]

अभिराज राजेन्द्र मिश्र: उत्तरप्रदेशराज्यस्थ जौन्पुर मण्डले विद्यमाने द्रोणिपुरग्रामे जनिं लेभे | एतस्य पिता पण्डित दुर्गप्रसादमिश्र:, माता च अभिराजि देवी | एतस्य दीक्षागुरु: रामभद्राचार्य:,येन रचितं "गीतरामायणम्" पौराणिकं गीतं अभिराज राजेन्द्र मिश्रेण २०११ वर्षे जनवरिमासस्य १४ दिनाङ्के प्रकाशितम् | अभिराज राजेन्द्र मिश्र: सेवानिवृत्ते: परं हिमाचलप्रदेशराज्ये सिम्लानगरे वसति |

प्रधानकार्याणि[सम्पादयतु]

अभिराज राजेन्द्र मिश्रस्य प्रधानकार्याणि, तानि -

इक्षुगन्ध:

अरण्यानि

अभिराज- यशोभूषणम्

धर-माण्डवीयम्

जानकिजीवनम्

मधुपर्णि

संस्कृत साहित्य मे अन्योक्ति

सप्तधारा

अभिराज सहस्रकम्

नाट्यपञ्चगव्यम्

नाट्यपञ्चामृतम्

वाग्-वधूटि

मृद्विका

श्रुतिम्भरा

बलिद्वीपे भारतीयसंस्कृति:

विंशशताब्दि संस्कृतकाव्यामृतम् (सं)

सुवर्णद्वीपीय रामकथा

संस्कृत शतकम्

Poetry and Poeties

प्रशस्तय: एवं संस्तुतय:[सम्पादयतु]

साहित्य अकाडमी पुरस्कार: (१९८८ वर्षे संस्कृते लघुकथानां सङ्कलनाय " इक्षुगन्ध:" )

२००२ वर्षे राष्ट्रपतिपुरस्कार:

वाल्मीकि - सम्माननम्

वाचस्पति - सम्माननम्

उत्तरप्रदेश संस्कृतसंस्थानत: विश्वभारती सम्माननम्