विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/आचार्य: सिङ्गिरेड्डी नारायणरेड्डी (सि ना रे)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विदन्ति एव विद्वज्जना: यद् विश्वे अस्मिन् कवितावाङ्मये भारतदेशस्य महद्वैशिष्ट्यमस्तीति। ताद्रुशदेशे आधुनिकान्ध्रसाहित्यसाम्राज्यचक्रवर्तिन: वर्तन्ते आचार्या: सिनारे महाशया:। एते अविश्रान्तपरिश्रमिण: वर्तन्ते आन्ध्रसाहित्ये। एते महभागा: १९८८ तमे वत्सरे स्वविरचितविश्वम्भरकाव्यस्य प्रतिष्ठात्मकं ज्ञानपीठपुरस्कारमलभन्त। सिनारे महाशया: आन्ध्रसर्वकारेण राज्यसभासभ्यत्वे न्ययोजिषत। एतेषां गीतानि तेलुगुचलनचित्ररङगे सह्रुदयवेद्यानि अतिप्रसिद्धानि आसन्। बाल्यकाल:‌-विद्याभ्यासश्च--- सि नारायणरेड्डी महाशया: १९३१ तमे वत्सरे जुलाई मासे २९ तमे दिनाङ्के (प्रजोत्पत्तिनामके वत्सरे निजाषाढशुद्धपौर्णम्यां तिथौ)करीण्णगरजिल्लायां हनुमाजीपेटाख्ये लघुग्रामे जनिमलभन्त।अस्य पितुरभिधानं मल्लारेड्डीति स एक: कर्षक:,माता च बुच्चम्मेति साचैका ग्रुहिणी।सिनारे महाशयानां प्राथमिकविद्याग्रहणं तस्मिन्नेव ग्रामे लघुपाठशालायां आसीत्।बाल्यकाले एव एते हरिकथासु, जानपदेषु,जङ्गंकथासु समाक्रुष्टा: अभवन्।सिरिसिल्लग्रामे एते उर्दूमाध्यमेन माध्यमिकविद्यां,करीण्णगरे उन्नतपाठशालविद्यां अधीतवन्त:। एते,तस्मिन् काले तेलुगुभाषा एका ऐच्चिकभाषा आसित्। एते हैदरबाद् नगरे चादरघाट् कलाशालायां इन्टर्मिडियट्,उस्मानियाविश्वविद्यालये बि ए पर्यन्तं उर्दूमाध्यमेनैव पठित्वा पुनस्तस्मिन्नेव विश्वविद्यालये तेलुगुभाषायां पी जि, डाक्टरेट् प्राप्तवन्त:।एते विद्यार्थिदशायामेव श्रीक्रुष्णदेवरायाध्रभाषानिलये बहुग्रन्थान् अधीतवन्त:। कुटुम्बपरिचय:-