सामग्री पर जाएँ

विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/कन्नडविश्वविद्यालय:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कन्नडविश्वविद्यालय:[सम्पादयतु]

कन्नडविश्वविद्यालय: हम्पिनगरे प्रतिष्ठापित: वर्तते | चन्द्रशेखरकम्बार: अस्य विश्वविद्यालयस्य प्रथमकुलपतय: आसन् | प्रो.एम्.एम्.कलबुर्गि महोदय: अस्य विश्वविद्यालस्य द्वितीय कुलपतित्वेन कार्यमकुर्वन् | सम्प्रति मल्लिका घण्टि महोदया कुलपतिर्वत्तते | कर्नाटकस्य एवं कन्नडस्य विषये संशोधनां कर्तुम् अस्य विश्वविद्यालस्य स्थापना कृता | समग्रं ज्ञानं कन्नडे प्राप्तुं शक्नुयात् एवं कन्नडस्य तथा कर्नाटकस्य विषये अन्यभाषासु जानप्राप्तिवत् करणमेव अस्य विश्वविद्यालयस्य उद्देश्यम् |

विश्वविद्यालयस्य वैशिष्ट्यम्[सम्पादयतु]

अस्मिन् विश्वविद्यालये विषयाणां पाठनस्यापेक्षया संशोधनार्थं अधिकं प्रामुख्यं प्रदत्तम् | संशोधनात् प्राप्तान् फलितांशान् पुस्तकरूपेण प्रकाशनं भवति |एतावता कन्नडविश्वविद्यालयेन सहस्राधिकानि पुस्तकानि प्रकाशितानि |अस्य विश्वविद्यालयस्य भाषान्तरकेन्देण कन्नडस्य श्रेष्ठानि साहित्यानि आङ्लभाषया अनूद्य प्रकाश्यमानानि वर्त्तन्ते | एतावत्पर्यन्तं त्रय: भागा: डा.तारकेश्वर-महोदयस्य संपादकत्वे प्रकाशिता: | अनेका: विद्वत्पत्रिका: अपि प्रकाश्यन्ते | 'जर्नल् आफ् कर्नाटक स्टडीस्' इति आङ्लभाषाया: पत्रिका प्रकाश्यमाना वर्तते | विश्वविद्यालयस्य मूलकेन्द्रं हम्पिनगरात् ५ कि.मी. दूरे , होसपेटेत: १६ कि.मी. दूरे विद्यारण्य इति स्थाने ६०० एकर्स् परिमितावरणे वत्तते | न केवलम् एतावत् अपि तु बादामि,कुप्पलि,कूडलसंगमेषु उपग्रहकेन्द्राणि अपि एतस्य विश्वविद्यालयस्य वर्त्तन्ते |

विश्वविद्यालयस्य स्वरूपम्[सम्पादयतु]

अस्मिन् विश्वविद्यालये त्रय: अङ्गा: वर्त्तन्ते | यथा -

अध्ययनाङ्ग:

प्रशासनाङ्ग:

प्रसाराङ्ग:


विश्वविद्यालयस्य त्रय:संङ्काया:[सम्पादयतु]

भाषासंङ्काय:

समाजविज्ञानसंङ्काय:

ललितकलासंङ्काय:


भाषासंङ्काये विद्यमाना: विभागा:[सम्पादयतु]

भाषान्तराध्ययनविभाग:

कन्नडसाहित्याध्ययनविभाग:

कन्नडभाषाध्ययनविभाग:

द्राविडसंस्कृतिविभाग:

हस्तप्रतिविभाग:

महिलाध्ययनविभाग:

समाजविज्ञानसंङ्काये विद्यमानविभागा:[सम्पादयतु]

पुरातत्व एवं प्राचीनेतिहासविभाग:

चरित्रविभाग:

जानपद-अध्ययनविभाग:

अभिवृद्धि-अध्ययनविभाग:

ललितकलासंङ्काये विद्यमाना: विभागा:[सम्पादयतु]

संङ्गीतविभाग:

दृश्यकलाविभाग:

शिल्पकलाविभाग:

अध्ययनकेन्द्राणि[सम्पादयतु]

कुवेम्पु-अध्ययनकेन्द्रम्, कुप्पल्लि

महिला-अध्ययनकेन्द्रम्, हम्पि

भाषान्तरकेन्द्रम्, हम्पि

अन्ताराष्टियवचनाध्ययनकेन्द्रम् ,कूडलसंङ्गम्

विश्वविद्यालये प्रदीयमाना: पुरस्कारा:[सम्पादयतु]

कन्नडविश्वविद्यालयेन कन्नडे विशेषेण सेवां कृतवद्भ्य: महद्भ्य: अधोनिर्दिष्टा: पुरस्कारा: दीयमाना: वर्त्तन्ते -

नाडोज पुरस्कार:

डि लिट् उपाधि: