सामग्री पर जाएँ

विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/नित्यकर्मविषये अद्वैतिनां सिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नित्यकर्मविषयेअद्वैतिनांसिद्धान्तः

[सम्पादयतु]

प्रबन्धसारः

[सम्पादयतु]

वेदान्तशास्त्रेतत्रतत्रनित्यकर्मविषयेविचारोदृश्यते।पूर्वमीमांसकानांनित्यकर्मणांविषयेयन्मतंतत्तथैवअस्माभिःस्वीक्रियतेचेद्अद्वैतसिद्धान्तेनसहविरोधआपतति।यावज्जीवमग्निहोत्रादिकंकार्यम्इत्येवम्अक्षरशःस्वीकारेवेदान्तोक्तसर्वकर्मसन्यासानुपपत्तिः।तस्मात्श्रुत्यायुक्त्याचवेदान्तीइदंप्रतिष्ठापयतियन्नित्यकर्माननुष्ठानंनस्वयंप्रत्यवायरूपदुरितंप्रतिकारणम्, अपितुअस्मिन्जन्मनिदुःखोपभोगरूपफलदानायप्रवृत्तानामेवपूर्वपूर्वजन्मकृतदुरितानांलक्षकमात्रम्।नित्याकरणम्आरब्धदुरितानांलक्षकं, नतुकारणमथवाहेतुरितिभावः।किञ्चविदुषांयावज्जीवश्रुतिविषयत्वंनास्तिचेदपिअविदुषांतदस्तीतियावज्जीवश्रुतेःअविषयत्वापत्तिशङ्काअपिनिवार्यते।कर्मणाञ्चनमुक्तिफलकत्वमिति।एवञ्चश्रुतिविहितनित्यकर्मानुष्ठानम्अविदुषांसिद्धंस्यात्, अद्वैतसिद्धान्तविरोधश्चपरिहृतःस्यात्।

प्रबन्धोद्देश्यम्

[सम्पादयतु]

नित्यकर्मविषयेबह्व्यःविप्रतिपत्तयःदृश्यन्ते।नित्यकर्माकरणेप्रत्यवायोत्पत्तिरितिमीमांसकसिद्धान्तः।तेषांमतानुसारेणनित्यकर्मणांफलंनास्ति।परन्तुअद्वैतवेदान्तिनांमतानुसारेणतुनित्यकर्माननुष्ठानंप्रत्यवायहेतुर्नभवति।अपिचएतेषांमतेनित्यकर्मणांफलंसुतरांवर्तते।शाङ्करभाष्यादिषुनित्यकर्मविषयेबहुधाविचारोदृश्यते।तदेवस्पष्टरूपेणप्रतिपादयितुमयंप्रबन्धःविरच्यते।

पारिभाषिकपदानि

[सम्पादयतु]

अद्वैतदर्शनम्, नित्यंकर्म, आरब्धदुरितंकर्म, कर्मसंन्यासः, प्रत्यवायः, अग्निहोत्रञ्चेतिभवन्तिपारिभाषिकपदानि।

उपोद्घातः

[सम्पादयतु]

अद्वैतवेदान्ताचार्यैःश्रीमत्सदानन्दयोगीन्द्रैःवेदान्तसारनामकेग्रन्थेअधिकारिणःलक्षणमुक्तंयत् "अधिकारीतुविधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिन्जन्मनिजन्मान्तरेवाकाम्यनिषिद्धवर्जनपुरःसरंनित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेननिर्गतनिखलकल्मषतयानितान्तनिर्मलस्वान्तःसाधनचतुष्टयसम्पन्नःप्रमाता”(वेदान्तसारः,पृ.सं-२५) इति।चित्तशुद्धयेकर्तव्यतयाउपदिष्टेषुसाधनेषुनित्यान्यन्यतमानि।किञ्चयेषांकर्मणामनुष्ठानेकृतेपुण्यंनजायते, परन्तुअनुष्ठानेअकृतेसतिपापंजायते, तानिभवन्तिनित्यकर्माणि।नित्यंप्रत्यहमवश्यकर्तव्यतयाशास्त्रविहितम्, अग्निहोत्रादिकर्मनित्यमितिकथ्यते।सदानन्दयोगीन्द्राःनित्यकर्मलक्षणमाहुः "नित्यानिअकरणेप्रत्यवायसाधनानिसन्ध्यावन्दनादीनि ” इति।अकरणेअननुष्ठानेप्रत्यवायसाधनानिपापोत्पादकानिसन्ध्यावन्दनादीनिकर्माणिनित्यानीत्यर्थः

नित्यकर्मविषयेपूर्वमीमांसकानांमतम्

[सम्पादयतु]

पूर्वमीमांसकानांमतेनित्यकर्मणांफलंनास्ति।तस्मात्नित्यंकर्मएवमुक्तयेसाधनम्।यःपुरुषःकाम्यंकर्मनकरोति।किञ्चनिषिद्धंकर्मसर्वथात्यजति, अपिचनित्यनैमित्तिककर्मानुष्ठानंविधिपूर्वकंकरोतिसःस्वरूपावस्थितिरूपंमोक्षंप्राप्नोति।तथाहिउक्तम्- "अकुर्वतःक्रियाःकाम्यानिषिद्धास्त्यजतस्तथा। नित्यंनैमित्तिकंकर्मविधिवच्चानुतिष्ठतः।।"इति।(नैष्कर्मसिद्धौ(श्लो.स१०)) नित्यकर्मानुष्ठानेनअधिकारिणःपुरुषस्यपापंनभवति।तस्मात्मोक्षप्राप्तयेआत्मज्ञानस्यआदरमकृत्वाकर्माणिकरणीयानि।तथाहिउक्तम्- "नित्यानुष्ठानतश्चैनंप्रत्यवायोनसंस्पृशेत्। अनादृत्यात्मविज्ञानमतःकर्माणिसंश्रयेत्।।"इति(नैष्कर्मसिद्धौ(श्लो.स१३)) पूर्वमीमांसकाः"अग्निहोत्रंजुहोति”,(अर्थसंग्रहः,पृ.सं-५६) इत्यादिश्रुतीःआश्रित्यआजीवनंनित्यकर्मानुष्ठानंकार्यमितिवदन्ति।सर्वैःआजीवनम्अग्निहोत्रादिकार्यंकर्तव्यमितिअनयाश्रुत्याअवगम्यते।नित्यकर्मणांस्वकीयंफलंकिमपिनविद्यते।किन्तुनित्यकर्मणाम्अननुष्ठानेतुप्रत्यवायदोषोत्पत्तिः।एवञ्चकर्मसन्न्यासइतिवेदान्तिभिरुच्यमानंवस्तुनोपपद्यतेइति।केचनमीमांसकैकदेशिनोभर्तृप्रपञ्चादयस्तुएवंवदन्ति- नित्यकर्माणिसञ्चितदुरितानांक्षयंकुर्वन्ति।एवञ्चनित्यकर्मानुष्ठानेनक्रमशःसर्वसञ्चितकर्मक्षयात्मोक्षोजायतेइति।

नित्यकर्मविषयेसिद्धान्तः

[सम्पादयतु]

नित्यकर्माणिसर्वैःयावज्जीवमनुष्ठेयानिइतिपूर्वमीमांसकस्यमतंविरुध्यवेदान्तीएवमाह- फलेच्छयैवकर्मसुप्रवर्ततेपुमान्, अतःकारणात्नित्यकर्मणांफलमिच्छताअविदुषातदनुष्ठानं, सर्वफलेच्छारहितस्यविदुषस्तुनित्यकर्मणांसंन्यासएवसिद्धः।अत्रपूर्वमीमांसकाःप्राहुः- नेदंयुक्तं, नित्यकर्मणांफलाभावात्।अत्रोच्यतेसिद्धान्तिनानित्यकर्मणांफलंसुतरांवर्तते।तदुक्तंश्रीशङ्करभगवत्पूज्यपादैः- “तस्मात्साभिसन्धीनांनित्यानांकर्मणांसर्वमेधाश्वमेधादीनाञ्चब्रह्मत्वादीनिफलानि, येषांपुनःनित्यानिनिरभिसन्धीनिआत्मसंस्कारार्थानितेषांज्ञानोत्पत्त्यार्थानितानि,“ब्राह्मीयंक्रियतेतनुः“इतिस्मरणात्,तेषाम्आरादुपकारकत्वाद्मोक्षसाधनान्यपिकर्माणिभवन्तीतिनविरुध्यते (बृहदारण्यकोपनिषद्भाष्यम् (३/३/१३), पृष्ठाङ्कः- ६८६) “इति तदुक्तंभगवद्गीतायां- “नित्यानामपिकर्मणाम्इहफलवत्त्वस्यउपपादितत्वात् “यज्ञोदानंतपश्चैवपावनानि(गीतायाम्(१८.०५))”इत्यादिनावचनेन(गीतायाम्अष्टादशाध्याये“एतान्यपितुकर्माणिसङ्गत्यक्त्वाफलानिच।कर्तव्यानीतिमेपार्थनिश्चितंमतमुत्तमम्।।(१८.६६)”इतिश्लोकस्यभाष्ये)।” पुनःतत्रैवउक्तं- “तस्माच्चननित्यानांकर्मणाम्अदृष्टफलाभावःकदाचिदप्युपपद्यते(“सर्वधर्मान्परित्यज्यमामेकंशरणंभज।अहंत्वासर्वपापेभ्योमोक्षयिष्यामिमाशुचः।।“(१८.६६)इतिश्लोकस्यभाष्ये)।”इति एवञ्च, नित्यकर्मणांफलवत्त्वात्सर्वफलेच्छारहितस्यविदुषोजीवन्मुक्तस्यनित्यकर्मसंन्यासःउपपन्नः।अविदुषश्चफलेच्छोःनित्यकर्मसुप्रवृत्तिरुपपन्ना। नित्यकर्मणाम्अननुष्ठानेप्रत्यवायदोषोत्पत्तिरितिमतमपिनस्वीक्रियतेवेदान्तिना, तथास्वीक्रियमाणेसर्वकर्मपरित्यागिनःविदुषःप्रत्यवायप्रसङ्गःस्यात्।तर्हिनित्यकर्माकरणेदोषःकोऽपिमास्तुइतिचेत्तदपिन, यतोहिअविदुषान्तुनित्यकर्माननुष्ठानेदोषप्रसक्तिरस्तिइतिवेदान्तिभिःस्वीक्रियते।एवञ्चेद्अविदुषांविषयेनित्यकर्माकरणंप्रत्यवायदोषोत्पादकम्अस्तुइतिचेत्तदपिन, वेदान्तशास्त्रेऽभावाद्भावोत्पत्तेःअनङ्गीकारात्।यतोहिअकरणमितिकर्माभावः।कर्मणअभावःकर्माभावः।तस्मात्अभावात्भावोत्पत्तिःवेदान्तिभिःनस्वीक्रियते। तदुक्तंस्मृतिकारेणमनुमहर्षिणा - "अकुर्वन्विहितंकर्मनिन्दितंचसमाचरन्। प्रसञ्जन्चेन्द्रियार्थेषुनरःपतनमृच्छति।। मोक्षार्थीनप्रवर्तेततत्रकाम्यनिषिद्धयोः। नित्यनैमित्तिकेकुर्यात्प्रत्यवायजिहीसया(मनुस्मृतौ (११.४४))।।"इति पूर्वोक्तश्लोकेविहतकर्माकरणंपतनरूपप्रत्यवायंकथंसूचयतीतिचेदुच्यते“अकुर्वन्” इत्यत्रयःशतृप्रत्ययान्तशब्दःवर्ततेसः लक्ष्यार्थकःनतुहेत्वर्थकः। तत्प्रतिपाणिनीयसूत्रमेवप्रमाणत्वेनाह "लक्षणहेत्वोःक्रियायाः(पाणिनीयसूत्रम् (०३.०२.१२६)”इति। एवञ्च,"अभावाद्भावोत्पत्तिर्नभवति" इतिवेदान्तनयेनअविरुद्धंसिद्धम्। अविदुषांनित्यकर्मपरित्यागः आरब्धदुरितरूपदोषस्यलक्षकःस्यादित्यपिसिद्धम्। किञ्चनित्यकर्माकरणंयस्मात्प्रत्यवायकारणंनभवतितस्मात्नित्यकर्मसंन्यासीविद्वान्प्रत्यवायदोषभागपिनभवतीतिसङ्गच्छते। नित्यकर्मानुष्ठानम्अनारब्धकर्मणामथवासञ्चितकर्मणांक्षयंकुर्वत्क्रमेणसर्वसञ्चितकर्मनाशद्वारामुक्तिफलंददातिइतियन्मतंमीमांसकानांतदपिनयुक्तम्, नित्यकर्माणिआरब्धदुरितक्षयार्थानि, नतुसञ्चितदुरितक्षयार्थानीतिसिद्धत्वात्।तदुक्तंभाष्यकारभगवत्पूज्यपादैः- “नित्यान्यधिगतानिकर्माणिउपात्तदुरितक्षयार्थानि(तैत्तिरीयोपनिषदःसम्बन्धभाष्ये,पृ.सं-८७३)”इति। पुनस्तत्रैवोक्तम्- “नित्याकरणनिमित्तस्यप्रत्यवायस्यदुःखरूपस्यआगामिनःपरिहारार्थानिनित्यानीत्यभ्युपगमात्नअनारब्धफलकर्मक्षयार्थानि(तैत्तिरीयोपनिषदःसम्बद्धभाष्ये,पृ.सं-८७५)।”इति। अस्याशयस्तावत्अनारब्धकर्मणांक्षयमेवननित्यकर्मणामुद्देश्यम्।यतोहिनित्यकर्माकरणेप्रत्यवायःश्रुतोवर्तते।नित्यंकर्मनविधीयतेचेदनिष्टंभवतीत्यतःप्रत्यवायस्यअनिष्टार्थबोधकत्वात्, नित्यकर्माकरणनिमित्तस्यभाविनःदुःखस्यापिअनिष्टत्वात्नित्यकर्मणाचतस्यविनाशत्वात्नित्यकर्माणिअवश्यंविधेयानिभवन्तीति।

उपसंहारः

[सम्पादयतु]

तस्माद्आरब्धफलानिकर्माणिपूर्वोपात्तानिप्रत्यवायाख्यानि।तेषांक्षयोनित्यकर्मफलम्।नित्यकर्मानुष्ठानंप्रत्यवायस्यनकारणं, प्रत्यवायस्यपूर्वमेवआरब्धकर्मत्वात्। किञ्चनित्याकरणम्आरब्धदुरितानांलक्षकं, नतुकारणमथवाहेतुः। अपिचविदुषांयावज्जीवश्रुतिविषयत्वंनास्तिचेदपिअविदुषांतदस्तीतियावज्जीवश्रुतेःअविषयत्वापत्तिशङ्काअपिनिवारिता।नित्यकर्मानुष्ठानस्यमुक्तिफलकत्वमितिएकदेशिमतमपिनिरस्तम्।एवञ्चवेदान्तेश्रुतिविहितनित्यकर्मानुष्ठानसिद्धिर्जाता,अद्वैतसिद्धान्तविरोधश्चपरिहृतइतिशिवम्।

पारिभाषिकपदविवरणम्

[सम्पादयतु]

अद्वैतदर्शनम्षडास्तिक्यदर्शनेषुअद्वैतदर्शनमन्यतमम्।द्वैतस्याभावोयस्मिन्,तद्ब्रह्मभवतिअद्वैतम्। नित्यंकर्म –यस्यकर्मणअनुष्ठानेकृतेपुण्यंनजायते, परन्तुअननुष्ठानेकृतेसतिपापंजायते, तद्भवतिनित्यंकर्म।सन्ध्यावन्दनादिकर्माणिनित्यकर्मणउदाहरणानि। आरब्धदुरितंकर्म–कर्मत्रिविधंभवति।आरब्धं,सञ्चितं, आगामिचेति। शरीरधारणंयत्कर्मवशात्भवतितत्भवतिआरब्धंकर्म।यथाऽऽरब्धवेगस्यलक्ष्यमुक्तेष्वादेर्वेगक्षयादेवस्थितिःतथैवआरब्धकर्मणअपिभोगेनैवक्षयः। कर्मसंन्यासः – नित्यनैमित्तिकर्मणांविधिवत्परित्यागोभवतिकर्मसंन्यासः। अग्निहोत्रम्आहिताग्निनासपत्नीकेनप्रतिदिनंसायंप्रातःक्रियमाणोहोमविशेषःदधिपयोयवागूतण्डुलान्यतमद्रव्यकम्अग्निहोत्रम्।

सहायकग्रन्थसूची

[सम्पादयतु]
  1. शास्त्री, डाँ. राकेश, वेदान्तसारः, परिमलपब्लिकेशन्स, दिल्ली, 2003।
  2. शास्त्री, पं. प्रेमवल्लभत्रिपाठी, नैष्कर्म्यसिद्धिः, चैखम्बासंस्कृतप्रतिष्ठन, दिल्ली,2009।
  3. शास्त्री, सं. एस. सुब्रह्मण्यशास्त्री, उपनिषद्भाष्यम्, खण्डः-३, श्रीदक्षिणामूर्तिमठप्रकाश, वाराणसी।
  4. भोलेबाबा,श्रीयतिवर, श्रीमद्भगवद्गीता, खण्डः-२, चौखम्बसंस्कृतप्रतिष्ठान, दिल्ली, 2008।
  5. रुस्तगी, डाँश्रीमतीउर्मिला, मनुस्मृतिः, जे. पी. पब्लिशिंगहाउस, दिल्ली।
  6. शास्त्री, सं. एस. सुब्रह्मण्यशास्त्री, उपनिषद्भाष्यम्, खण्डः-२, श्रीदक्षिणामूर्तिमठप्रकाश, वाराणसी।
  7. दीक्षित, डाँपुष्पा, अष्टाध्यायीसहजबोध, पाणिनीयशोधसंस्थान, बिलासपुर, 2004।
  8. ईशादि नौ उपनिद्, गीताप्रेस,गोरखपुर।
  9. लौगाक्षिभास्करः, अर्थसंग्रहः(मीमांसार्थसंग्रहकौमुदीनाम्ना संस्कृतव्याख्याया प्रकाशिकानाम्ना च हिन्दीव्याख्याया उपेतः), डाँ कामेश्वरनाथ मिश्रः, वाराणसी चौखम्बा सुरभारती प्रकाशन, 2010।

Sudipta dey52 (चर्चा)श्रीसुदीप्त दे