विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/भारतीयप्रबन्धसंस्थानम्‌-बेङगलूरु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयप्रबन्धनसंस्थानम्-बेङलूरु


"भारतीयप्रबन्धनसंस्थानम्" भारतदेशे एका विशिष्ठा विश्वविख्यातप्रबन्धनसंस्था वर्तते। तस्या: संस्थाया: स्थिति: कर्णाटकराज्यान्तर्गतबेङ्गलूरुनगरे एकशतयोजनविस्तीर्णा(१०० एकड्) रमणीयप्रक्रुतिशोभयालङ्क्रुता च वर्तते। अत्र सर्वाण्यपि भवनानि केवलं शिलखण्डै: निर्मितानि। अस्या: संस्थाया: स्थापनं १९७३ तमे वर्षे आसीत्।

कार्यक्रम:- संस्थानदीर्घावधि: स्नातकोत्तरकार्यक्रमा:सम्मिलिता:‌- ध्वजपोतप्रबन्धे स्नातकोत्तरकार्यक्रम:(पीजीपी)। तन्त्रांशोद्यमप्रबन्धे स्नातकोत्तरकार्यक्रम:(पीजीएसईमएम्)। सार्वजनिकनीतिरेवं प्रबन्धेषु स्नातकोत्तरकार्यक्रम:(पीजीपीपीएम्)। एकस्य वर्षस्य पूर्णकालिकप्रबन्धे कार्यपालकस्नातकोत्तरकार्यक्रम:(ईपीजीपी),एवं प्रबन्धे अस्मिन् वाचस्पतिबिरुदप्रदानकार्यक्रम: वर्तते।

एवंरूपेण भाप्रसंबे(भारतीयप्रबन्धनसंस्थानम्-बेङ्गलूरु) प्रबन्धकसंस्थाने विभागत्रयसंबद्धपाठ्यक्रमा: सन्चाल्यन्ते। एतेषां सर्वेषां कार्यक्रमाणामुच्चमूल्याङ्कनं क्रुतं वर्तते,अपि च अत्र ये छात्रा: अधीता: ते विश्वे सर्वत्र विख्यातासु विविधप्रबन्धनसंस्थासु प्रमुखपदवीषु अलङ्क्रुता: सन्ति।अत्र अग्रिमकार्यकलापशिक्षाकार्यक्रम:(ईईपी)